________________
१३ ग्रन्थः] पाख्यातशक्तिवादः ।
अन्वयबोधे त्वयं विशेषः-यदेकत्र कर्तर्याश्रयत्वं तत्र क्रिया तत्र विषयत्वं तत्र कमेविशेषणत्वम् । फलाजनकत्वादित्यत आह-घटमित्यादि । सविषयकेति । ज्ञानेच्छा-कृतिद्वेष-भावनाबोधकधातुस्थले इत्यर्थः। कर्मेति द्वितीयया क्वचित् षष्ठया आत्मनेपदेन चेत्यर्थः । यथेति । घटं जानामीत्यादौ कर्तृप्रत्ययस्थले द्वितीयाया विषयित्वं चैत्रेण ज्ञायते घट इत्यादौ चात्मनेपदस्य विषयत्वमित्यर्थः । विषयित्वं विषयत्वमित्यस्य बोध्यते इत्यनेनान्वयः । एवमग्रेऽपि । तेन चैत्रो घटं जानातीत्यादौ घटविषयकज्ञानाश्रयश्चैत्र इत्यन्वयबोधः । चत्रेण घटो ज्ञायते इत्यादौ च चैत्रवृत्तिज्ञानविषयो घट इत्यन्वयबोधः । एवमन्यदूधम् । चैत्रो घटं जानातीत्यादौ कर्तरि तिडा आश्रयत्वं चैत्रेण घटो ज्ञायते इत्यादौ च तृतीयया आधेयत्वं बोध्यते ॥ १४ ॥ _(रघु०) ननु सर्वत्र द्वितीयासमभिव्याहृतस्थले फलादेर्धात्वर्थत्वे घट जानातीत्यादिप्रयोगानुपपत्तिः । ज्ञानजन्यफलस्य घटादाववृत्तित्वेन तत्र · तदन्तर्भावेनान्वयबोधासंभवात् । एवं सर्वत्र परसमवेतत्वं कर्मप्रत्ययार्थ इदम. प्यशुद्धम् । आत्मा आत्मानं जानातीति प्रयोगानुपपत्तेः । आत्मान्यवृत्तित्वस्य ज्ञानादावप्रसिद्धया तस्य तत्रान्वयबोधासंभवादित्यत आह-घट जानातीत्यादि । विषयित्वमिति तु कर्तृतिङादिस्थले द्वितीयार्थाभिप्रायेण । विषयत्वमिति तु कर्माख्यातस्थले आख्यातार्थाभिप्रायेणोक्तम् । तृतीयेत्यस्य कर्माख्यातादिस्थले इत्यादि । तथाच सविषयकार्थवोधकघात्वसमभिव्याहृतद्वितीयासमभिव्याहृतधातुस्थले फलादेर्धात्वर्थत्वनियमः । एवं तादृशधातुस्थले कर्मप्रत्ययस्य परसमवेतत्वमर्थो नान्यत्रेति भावः ॥ १४ ॥
(जय० ) मुख्यमभिधाय भाक्तकर्मत्वमाह-घटमिति। घटं जानातीत्यादौ द्वितीयया विषयित्वं, न तु विषयत्वमभिधीयते । घटमेव जानातीत्यादौ घटान्वयिविषयित्वस्यैव व्यवच्छेदसंभवात् । एवं ज्ञायते घट इत्यादौ आख्यातेन विषयत्वमेव न विषयित्वं, चैत्रेण न ज्ञायते घट इत्याद्यनुरोधात् । इत्थं चात्र द्वितीयाकर्माख्यातयोरपि भिन्नोऽर्थ इति विशेषोऽपीति भावः । आश्रयत्वमिति । नत्वाधेयत्वं जानातीत्याद्यनुरोधादिति भावः । धेयत्वमिति । नत्वाश्रयत्वं घटेन न ज्ञायत इत्याद्यनुरोधात् । इत्थं च तृतीयाख्यातयोरप्यर्थभेद इति भावः । घटेन नश्यत इत्यत्र तृतीययानुयोगित्वं बोध्यते गगनेन न नश्यत इत्यनुरोधादित्यपि बोध्यम् ॥ १४ ॥ (मथु०) एकत्रेति । घटं जानाति चैत्र इत्यादावित्यर्थः । कर्तरि