________________
वादार्थसग्रहः
[ ४ भाग:
इत्यादावित्यादिपदात् द्वेष्टि द्विष्यत इत्यादेर्ग्रहणम् । सविषयकेति, तथाच तादृशषातुसमभिव्याहार एव विषयित्वादिप्रत्ययनियामक इति भावः । यथायथमिति सुपा विषरित्वं कर्मतिङा च विषयत्वमित्यर्थः । सुपा विषयत्वाभिधाने च घटं जानातीत्यादावयोग्यतापत्तेः, विषयत्वस्य घटवृत्तित्वेन घटानिरूपितत्वात् ज्ञानस्य तदनाश्रयत्वाच्च । न चाधेयतासंबन्धेन घटस्य विषयत्वे निरूपकतासंबन्धेन च विषयत्वस्य ज्ञानेऽन्वय इति वाच्यम् । इदं ज्ञानं न घटस्य इति व्यवहारानुपपत्तेः । निरूपकता संबन्धस्य नृत्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वात् । आश्रयतासंबन्धेन विषयत्वाभावस्य तदर्थत्वे घटीयज्ञानेऽपि नेदं ज्ञानं घटस्येति व्यवहारापत्तेः । वृध्यनियामक • संबन्धस्याभावप्रतियोगितावच्छेदकत्वनयेऽपि तदभावस्य केवलान्वयित्वा पुपगमेन घटीयज्ञानेऽपि नेवं घटस्य ज्ञानमिति व्यवहारापत्तेः । एवं कर्मतिङा विषयत्वाभिधाने ज्ञायते घट इत्यादिव्यवहारानुपपत्तेः विषयित्वस्य ज्ञानटत्तित्वेन ज्ञानानिरूपितत्वात् घटादेस्तदनाश्रयत्वाच । न चाधेयतासंबन्धेन ज्ञानस्य विषयित्वे विषयित्वस्य च निरूपकता संबन्धेन घटादावन्वय इति वाच्यम् । तथा सति घटज्ञानदशायां घटो न ज्ञायत इति व्यवहारापत्तेः । निरूपकता संबन्धस्य नृत्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वात् । वृत्यनियामक संबन्धस्याभावप्रतियोगितावच्छेदकत्वे तदभावस्य केवलान्वयि - त्वाभ्युपगमेन घटज्ञानदशायामपि घटो न ज्ञायत इति व्यवहारापत्तेः । अतएवाश्रयत्व संबन्धेन ज्ञानविषयत्वाभाव एव घटो न ज्ञायत इत्यस्यार्थ इत्यपि परास्तम् । तथा सति घटज्ञानदशायामपि घटो न ज्ञायत इति व्यवहारा: पत्तेः । घटस्य विषयित्वानाश्रयत्वात् । न च कृधातुयोगे कर्मप्रत्ययेनापि विषयत्वविषयित्वयोरभिधाने स्वर्गं करोति याज्ञिकः, हविः करोति याज्ञिकः, स्वर्गः क्रियते याज्ञिकेन, हविः क्रियते याज्ञिकेन, गगनं करोति श्रीकृष्णः, गगनं क्रियते श्रीकृष्णेन, इत्यादिरपि प्रयोगः स्यादिति वाच्यम् । साध्यत्वारूपविषयित्व - साध्यत्वाख्यविषयत्वयोरेव धातुयोगे कर्तृ - कर्मप्रत्ययार्थत्वात्, भ्रान्त्या गुरुतर भारोत्तोलनदशायां तदुत्तोलनानुत्पादेऽपि गुरुतर भारोत्तोलनं करोतीति व्यवहारस्येष्टत्वात् । न चैवं गुरुतर भारोत्तोलनं न कृतमिति न स्यादिति वाच्यम् । फलोपधानात्मकजन्यताविशिष्टसाध्यत्वाख्यविषयत्वाश्रयस्य कर्तृकर्मकृदर्थत्वात् । वैशिष्टयं च क्रियाघटितसामानाधिकरण्यं साध्यत्वाख्यविषयत्वप्रवेशात् नान्तरीयके मत्तो भूतं न तु मया कृतमिति व्यवहारोपपत्तिरिति भावः ॥ १४ ॥
१४२
( राम० ) ननु द्वितीयाया आत्मनेपदस्य च फलार्थत्वे चैत्रेण घटो ज्ञायते इत्यादौ च द्वितीयात्मनेपदार्थयोरनन्वयापत्तिः । धात्वर्थज्ञानादेर्घटादिनिष्ठ