SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] माख्यातशक्तिवादः। १४१ घटं जानाति, इच्छति कुरुते, 'चैत्रः।मैत्रेण ज्ञायते इष्यते, क्रियते घट इत्यादौ सविषयकपदार्थाभिधायिधातुयोगे कर्मप्रत्ययेन यथायथं विषयित्वं विषयत्वं च कर्तृतिङा स्वाश्रयत्वं तृतीयया चाधेयत्वं बोध्यते ॥ १४ ॥ गापत्तेरिणायैकत्रोच्चारणान्तर्भावेन पुष्पवन्तादिपदवच्छक्तिरेवेति वाच्यम् , तथा सत्याधेयत्वपरसमवेतत्वयोरेकशक्तिविषयत्वे फले आधेयत्वस्य व्यापारे परसमवेतत्वस्यान्वयानुपपत्तेः । तथाच शक्तिद्वयमेव वाच्यमिति लक्षणैवास्तु । व्युत्पत्तिवैचित्र्याच्च नैकं विहायान्यबोध इति भावात् । एवं च तन्दुलं पचतीत्यादौ च विक्लित्ति: फलं, संयोगोऽनिसंयोगो वा धात्वर्थः । तथाच तंदुलनिष्ठफलजनकतंदुलान्यसमवेतक्रियानुकूलकृतिमत्त्वमर्थों बोध्यः । परत्वं च भेदवत्त्वम् । भेदे, चैकदेशे तत्तयक्तित्वावच्छिन्नप्रतियोगितया वस्तुगत्यान्वयि. प्रकृत्यर्थादेरन्वयो बोध्यः । तेन नरो नरं प्रतियातीत्यादेव्यक्तिभेदाभिप्रायकस्य नानुपपत्तिरिति बोध्यम् । अत्र द्वितीया प्रथमान्तार्थस्य विशेषणतया स्वार्थपरसमवेतत्वान्वितस्य धात्वर्थस्य पुनः स्वार्थान्तरे फलेऽन्वयस्य वाऽन्यत्रादृष्टस्य कल्पना नौचित्यात्, लाघवाच्च भेद एवार्थः । भेदस्य क्रियया सामानाधिकरण्यं, कर्मणा चं प्रतियोगित्वं संसर्गः । तथा च सुपा प्रतियोगितया कर्मान्वितभेदस्य क्रियायां सामानाधिकरण्येनान्वय: प्रत्याय्यते । तिङादिना च सामा. नाधिकरण्येन क्रियान्वितभेदस्य प्रतियोगितया कर्मणीति न कोऽपि दोष इति गुरुचरणाः । एवं गम्यादियोगे संयोगजनकत्वं क्रियान्वयि यथायथं विभागानाशकत्वं संयोगनाश्यत्वं फलान्वयि कर्मप्रत्ययार्थः । तथाच काश्यादिनिष्ठविभागानाशकतन्निष्ठसंयोगजनकतक्रियाश्रय इत्यादिः काशीं गच्छतीत्यादेरर्थः। तेन प्रकाश्यादि......गच्छतीत्यादिरात्मानं गगनादि च गच्छतीत्यादिश्च न प्रयोग इति बोध्यम् ॥ १३ ॥ (मथु०) मुख्यसकर्मधातुयोगे कर्मप्रत्ययस्थलेऽन्वयबोधं व्युत्पाय भाक्तसकर्मकधातुयोगे कर्मप्रत्ययस्थलेऽन्वयबोधं व्युत्पादयति-घटमित्यादिना । केचित्तु घर्ट जानातीत्यादौ घटो ज्ञायत इत्यादौ च कर्मप्रत्ययस्यायस्वार्थकत्वे चानन्वयप्रसङ्ग इत्यत आह, घटमितीत्याहुः। १ मैत्रः।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy