________________
१४०
वादार्थसंग्रहः । [४ भागः तिङादीत्यत्र आदिना कर्मकृत्परिग्रहः । स्वार्थेति । स्वार्थो यत्फलं तदाश्रयापेक्षयेत्यर्थः । इदं च फलावच्छिन्नव्यापारादेर्धात्वर्थत्वपक्षे । फलव्यापारयोर्धात्वर्थत्वपक्षे साख्यातादेराश्रयत्वाद्यर्थकतया स्वार्थाश्रयत्वाश्रयापेक्षयेत्यर्योऽवसेयः । तथाच ग्रामं गच्छतीत्यादौ ग्रामान्यवृत्तियों ग्रामवृत्तिसंयोगानुकूलस्पन्दस्तदनुकूला कृतिरित्येवान्वयबोधः । एवं चैत्रेण गम्यते प्राम इत्यादौ प्रामान्यवृत्तियों ग्रामवृत्तिसंयोगानुकूलस्पन्दस्तजन्यफलवान् तदाश्रयतावान् ग्राम इत्यन्वयबोध इति भावः ॥ १३ ॥
(जय०) क्रियान्वयीति । क्रिया धात्वर्थस्तदन्वयीत्यर्थः । इदं च परसमवेतस्यान्वयानुयोगिज्ञानार्थ, न तु तस्यापि शक्ती प्रवेश इति बोध्यम् । अत्र च विहगो भूमिं प्रयातीतिवदात्मानं प्रयातीत्यपि स्यात् । आत्मनिष्ठ. संयोगजनकक्रियावत्त्वस्यापि विहगे सत्त्वादिति परसमवेतत्वमपि द्वितीयार्थः । तस्य फलान्वयित्वे स एव दोषः; विहगभूमिसंयोगफलस्य विहगान्यभूमिसंयोगत्वादिति धात्वर्थे तस्यान्वय उक्तः । एवं च विहगान्यसमवेतत्वस्य क्रियायामन्वयानातिप्रसङ्ग इति प्रघट्टार्थः । ननु सर्वत्र प्रकृत्यर्थावधिकपरत्वस्य कर्मप्रत्ययार्थत्वे स्वात्मा गम्यत इत्यपि स्यात् । आत्मनेपदप्रकृतिधात्वर्थगमनभिने गमनस्य समवेतत्वादत आह-इयांस्त्विति । स्वप्रकृत्यर्थेति । इत्थं च भूमिं प्रयातीत्यत्र भूमिनिष्ठफलजनकभूमिभिन्नसमवेतगमनाश्रयत्ववानिति बोधः । तिङा दिनेति । आदिना कृत्यपरिग्रहः । स्वार्थेति । स्वार्थीभूतं. यत्फलं तदाश्रयेत्यर्थः । बाश्रयेति जनकीभूतधात्वर्थवारणाय स्वार्थफलविशेष्येत्यर्थकम् । अत्र च प्रथमांतपदोपस्थापितस्य भूम्यादेः परत्वे विशेषणतयाऽन्वयो व्युत्पत्तिवैचित्र्यात् । तथाच भूमिर्गम्यते विहगेनेत्यादौ विहगभूमिभिन्नसमवेतगमनजन्यफलशालिनी भूमिरित्यन्वयो बोध्यः । परवृत्तित्वं कालिकादिसंबन्धेनातिप्रसक्तमिति समवेतत्वमुक्तम् । तत्र यद्यपि परमर्थः समवेतत्वं संसर्ग इत्येव युज्यते वक्तुं, तथापि द्वितीयादेर्लाघवासंयोगादौ संख्यादावेव वा शक्तेः परस्मिन्नपि लक्षणैव । तथापि लक्षणायां लाघवस्याकिंचित्करत्वात् परसमवेतत्वमुक्तम् । यद्विहगकर्मकै गमनमप्रसिद्धं तद्विहगो भूमिं गच्छति, नतु तद्विहगमित्यादौ तद्विहगकर्मत्वाभावस्य गमने तद्विहगनिष्ठसंयोगजनकत्वाभावरूपस्याप्रसिद्धत्वात्तजनकत्वाद्यभावस्य चापदार्थत्वात्तविहगान्यसमवेतत्वाभावस्यान्वयो वाच्य इति समवेतत्वपर्यन्ते निरूढलक्षणाया आवश्यकत्वे सर्वत्रैव तथा । न चात्र परसमवेतत्वस्यायोग्यतयानन्वयेऽप्यात्मानं गच्छतीति प्रयो.