________________
.१३९
१३ ग्रन्थः ] आख्यातशक्तिवादः। । विहानानुकूलकृतिमानित्यन्वयवोषः । विहानं च विभागावच्छि नस्पन्दः । तदवच्छिन्नत्वं च जनकतासंबन्धेन विभागविशिष्टत्वं विशेषणं पूर्ववदिस्यन्यत्र विस्तरः । ननु भूमि प्रयातीत्यादौ यथा कर्मप्रत्ययेन द्वितीयया स्वप्रकृत्यर्थभूम्यपेक्षया परसमवेतत्वं प्रत्याय्यते तथा विहगेन भूमि प्रयातेत्यादावपि कर्मप्रत्ययेनाख्यातेन स्वप्रकृत्यर्थधात्वर्थप्रयाणापेक्षया परसमवेतत्वं प्रत्याय्यते । तथाच विहगवृत्तिकृतिजन्यप्रयाणभित्रसमवेतप्रयाणजन्यफलाश्रयो भूमिरित्यन्वयबोधः । फलं संयोग इति पर्यवसितम् । न चेदं संभवति, विहगेन स्वात्मा प्रयायते इत्यादेः प्रसङ्गात् । विहगटत्तिकृतिजन्यप्रयाणभिन्नसमवेतप्रयाणजन्यफलाश्रयत्वस्य भूमाविव विहगेऽपि सत्वात् संयोगस्य द्विष्ठत्वादित्यत आह-इयांस्त्विति । परत्वं परसमयेतत्वम्, सुपा द्वितीयादिना, प्रकृत्यर्थापेक्षिकं प्रकृत्यर्थभूम्यादिभिन्नसमवेतत्वम् । तिडा कर्माख्यातेन । स्वार्थेति । स्वार्थों यत्फलं तदाश्रयः म्यादिभित्रसमवेतत्वमित्यर्थः । तथाच भूमिभिन्नसमवेतत्वादिप्रत्ययः कर्तृकर्मस्थले तुल्य एव, किंतु कर्तृप्रत्ययस्थले कर्मप्रत्ययप्रकृत्यों भूमिः कर्मप्रत्ययस्थले च न प्रकृत्यर्थ इत्येव विशेष इत्यर्थः । नचैवं प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तिविरोधः । कर्मप्रत्ययस्थले परसमवेतस्वस्याप्रकृत्यर्थभूम्यन्वितत्वादिति वाच्यम् । अप्रकृत्यर्थभूम्यन्वितस्यापि तस्य प्रकृत्यर्थप्रयाणे. विशेषणत्वेन तदन्वयस्याप्रत्ययेन तादृशव्युत्पत्तेरविरोधात् । नहि प्रकृत्यर्थमात्रान्वितस्वार्थबोधकत्वपुत्पत्तिः, असंभवात् । घटमानयेत्यादावपि घटान्वितकर्मत्वस्यानयनेऽप्यन्वयादिति दिक् ॥ १३ ॥ . ( रघु० ) ननु धात्वर्थतावच्छेदकफलशालिस्वरूपस्य कर्मत्वरूपत्वे भूमि प्रयाति विहग इत्यादिवत्स्वात्मानं प्रयाति विहग इत्यादिप्रयोगापत्तिः, तत्र संयोगादिरूपफलस्य द्विष्ठतया स्वात्मनोऽपि तादृशफलाश्रयत्वसमवेन स्वात्मवृत्तितादृशफलानुकूलव्यापारानुकूलकृतिमान् विहग इत्यादिशाब्दबोध. संभवादित्यत आह-भूमि प्रयातीत्यादि । क्रियान्वयीति । एतेन परसमवेतत्वस्य द्वितीयार्थत्वेऽपि तस्य फले अन्वये संयोगादिरूपतत्फलष्ठितया स्वात्मवृत्तित्वेन तथाविधप्रयोगवारणासंभव इति निरस्तम् । ननु परसमवेतत्वमित्यत्र किमपेक्ष्य परत्वं विवक्षितम् । प्रकृत्यर्थापेक्षयेति चेत्, न । चैत्रेणात्मा गम्यत इति प्रयोगापत्तिः । तत्र प्रकृत्यर्थगमनापेक्षया आत्मनः परत्वादित्यत आई-इयांस्स्विति । विशेषमेव व्युत्पादयति यत्परत्वमित्यादिना ।