________________
वादार्थसंग्रहः ।
[४ भागः बस भूमिटत्तिसंयोगात्मकफलजनकप्रयाणाश्रयत्ववत्, स्वात्मवृत्तिसंयो. मात्माफलजनकप्रयाणाश्रयत्वात् , संयोगस्य द्विष्ठत्वादिस्यत आह-भूमि प्रयातीति । प्रयातीत्यत्र संयोगावच्छिन्नव्यापारो धात्वर्थः, द्वितीयायाः संयोगः । विजहातीत्यत्र धातोर्विभागावच्छिन्नव्यापारो द्वितीयायाश्च विभाग इति नाविशेषः । अनुरोधादिति । पञ्चम्यन्तं परसमवेतवं कर्मप्रत्ययार्थ इत्यत्र हेतुत्वेन योज्यम् । परसमवेतत्वं कान्वेतीत्याकाङ्क्षायामाह-क्रियान्वबीति । फलान्वयित्वे च फलस्य द्विष्ठतया पूर्वोक्त एव दोपः स्यादिति मावः । परस्वं च भिन्नत्वं, तथा च विहगो भूमि प्रयातीत्यादौ विहगः भूमिभिन्न समवेतभूमित्तिसंयोगजनकप्रयाणाश्रय इत्यन्वयबोधः । प्रयाणं च ममनं समवेतान्तं जनकान्तं च प्रयाणान्वितम् । एवं विजदातीत्यादौ विहगः भूमिभिन्नसमवेतभूमिवृत्तिसंयोगजनकविहानाश्रय इत्यन्वयबोधः । भिन्नघसम्मेः प्रतियोगितासंबन्धेनान्वयः । एकदेशत्वेऽप्याकाङ्क्षाबलेन तस्य व्युत्प. नत्वात् । न च तथापि उभयकर्मजसंयोगस्थले विहगः स्वात्मानं प्रयातीति प्रयोगापत्तिः । तत्र प्रयाणस्य आत्मभिन्नसमवेतत्वात् स्वात्मवृत्तिजनकत्वा. बेति वाच्यम् । तादृशप्रयाणस्य विहगे बाधादेव तथा प्रयोगासंभवात् । बन भेदे भूम्यादे मित्वावच्छिन्न प्रतियोगिताकत्वसंबन्धेनान्वयस्वीकारान्न पृ. थिवी प्रयाति विहग इत्यादौ बोधः । विहगस्यापि पृथिवीत्वेन विहगटत्तिप्रयाणस्य पृथिवीवावच्छिन्न प्रतियोगिताकभेदवत् समवेतत्वाभावात् । यदि च पृथिव्याः केवलप्रतियोगित्वसंबन्धेन भेदेऽन्वयः स्वात्मानं प्रयातीत्यपि स्यात् । स्वात्मनोऽपि स्वात्म-घटोभयत्वावच्छिन्न प्रतियोगिताकभेदवत्वेन तथाखात् । मैवम् । तव्यक्तित्वावच्छिनप्रतियोगिताकस्वसंबन्धेन पृथिव्यादेरन्वयस्वीकारात् । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वबोधस्य चावानभ्यु
मात् । यद्वा । भेदप्रतियोगितावच्छेदकत्वमेव परसमवेतत्वपदेन विवक्षि. नम् । तथा च स्वात्मवृत्तिभेदप्रतियोगितावच्छेदकाश्रयस्य स्वस्मिन् बाधानरो
न तथा प्रयोग इत्याशयात् । इत्थं च भूमि प्रयाति विहगो न स्वात्मानमित्यादौ ना स्वात्मभिन्नसमवेतत्वस्याभावो वा धास्वर्थे प्रयाणे प्रतीयते । तथाच विहगः भूमिवृत्तिसंयोगजनकभूमिभिन्नसमवेतत्ववत्स्वात्मसमवेतत्वाभाववत् प्रयाणानुकूलवर्तमानकृतिमानित्यन्वयबोधः । अत्र च जनकान्तं भूमिमिन्नसमवेतत्वं स्वभिन्नसमवेतत्वाभाववत्वं च एकत्र द्वयमिति रीत्या प्रवाणविशेषणम् । एवं विहगो महीव्हं विजहातीति न स्वात्मानमित्यादौ बिहमः महीलामिनसमवेतमहीलहत्तिविभागजनकस्वात्मभिन्नसमवेतत्वाभावा