SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३ प्रन्यः ] आख्यातशक्तिवादः। १३७ तिङादिना चेति । कर्मविहिततिादिना चेत्ययः । आदिपदात् कर्मविहितकृत्परिग्रहः । स्वार्थफलाश्रयापेक्षिकमिति स्वार्थफलांशे विशेष्यीभूता या व्यक्तिस्सदपेक्षिकमित्यर्थः, प्रकृत्यर्थापेक्षया परत्वबोधने महीरहगमनदशायामपि विहगो विहगेन गम्यते इति प्रयोगापत्तेः । गमनस्य गमनभिन्नसमवेतत्वात, एवं च भूमिर्गम्यते विहगेनेत्यादौ विहगनिष्ठकृतिजन्यभूमिभित्रसमवेतसंयोगावच्छिनस्पन्दफलशालिनी भूमिरित्यन्वयबोधः । भेदे भूम्यादेः संसर्गश्च तिर्थफलांशे विशेष्यीभूता या व्यक्तिस्त्वद्वयक्तिस्वावच्छिनप्रतियोगितासंबन्धेन तथैव व्युत्पत्तेः, व्युत्पत्तिवैचित्र्याच प्रथमान्तपदोपस्थाप्यस्याख्यातार्थे, आख्यातार्थस्य धात्वर्थे विशेषणतयाऽन्वयः । स्वर्गकामो यजेतेत्यादाविव आख्यातार्थद्वयपुटितस्यापि धात्वर्थस्यान्वयः स्वभिन्नसमवेतगमनस्य स्वकर्तृकत्वाभावादुभयकर्मजसंयोगस्थले मल्लः स्खं स्वेन गम्यते इति न प्रयोग इति भावः । एतच फलावच्छिन्नव्यापारस्य धात्वर्थत्व. मिति प्रथमकल्यानुसारेण, स्याद्वा फलव्यापाराविति द्वितीयकल्पे आश्रयत्वस्य कर्माख्यातार्थत्वमते आश्रयत्वांचे विशेष्यीभूता या व्यक्तिस्तदपेक्षिकमिति बोध्यम् । अन्वयबोधे त्वयं विशेषः-यत्तदेतन्मते संयोगावच्छिन्नं न स्पन्दविशे. षणं शालित्वं च प्रकार इति ध्येयम् । केचित्तु भेद एवार्थो न तु भेदवदेकदेशान्वयापत्तेः, भेदस्य च क्रियायां विशेषणत्व-समवायोभयघटितसामानाधिकरण्यसंबन्धेनान्वय इत्याहुः।। केचित्तु परसमवेतत्वं परो वा न द्वितीयार्थः, किंत्वन्योन्याभावप्रतियोगितावच्छेदकत्वं प्रतियोगितावच्छेदकतासंबन्धनान्योन्याभावो वा द्वितीयादेरर्थः, अन्योन्याभावे च द्वितीयार्थाधेयत्वादौ प्रकारीभूता या व्यक्तिः सैव निष्ठतासंबन्धेन प्रकार इति व्युत्पत्तेः। तेन विहगस्य महीरहगमनदशायां विहगो विहगं गच्छतीति प्रयोगो न योग्यः, योग्यश्च विहगस्य विहगान्तरगमनदश्शायां विहगो विहगं गच्छतीति प्रयोगः, कर्माख्यातस्थले तु तदर्थफलांचे विशेष्यीभूता या व्यकिः सैव निष्ठतासंबन्धेनान्योन्यामा प्रकार इति व्युत्पत्तिः । तेन विहगस्य भहीरुहगमनदशायां विहगो विहगेन गम्यते इति प्रयोगो न योग्यः, योग्यश्च विहगस्य विहगान्तरगमनदशायां विहगो विहगेन गम्यते इति प्रयोग इत्याहुः । तदसत् । जात्यतिरिक्तपदार्थस्य स्वरूपतोऽनवच्छेदकतया प्रतियोगितावच्छेदकत्वस्य विकल्पासहत्वादिति ध्येयम् ॥ १३ ॥ (राम०) ननु विहगो भूमि प्रयातीतिवद्विहगः स्वात्मानं प्रयातीति प्रयोगः स्या, न स्याच विहगः स्वारमानं न प्रयातीत्यादिकम् ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy