SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३६ वादार्थसंग्रहः [४ भागः मपि विहगो विहगं गच्छतीति व्यवहारस्यायोग्यस्वप्रसङ्गाच्च । उभयकर्मजसंयोगस्थलेऽपि, मल्लो मलं गच्छति, मेषो मेषं गच्छति, इत्यादयः प्रयोगा इष्टा एव, स्वस्मिन् स्वनिष्ठसंयोगजनकस्वभिन्नसमवेतस्पन्दाश्रयत्वाभावाच्च, मल्लः स्वं स्वयं गच्छतीत्यादिको न तत्र प्रयोगः । अथैवं दीर्थतन्त्वादिस्थले तन्तुस्तन्तुं गच्छति, इति व्यवहारो न स्यात् , तन्तोर्गमने तन्तुभिन्नसमवेतत्वस्य बाधात् । नच संयोगस्य द्विष्टतया स्वस्मिन् स्वसंयोगाभावेन तद्वाक्यमयोग्यमेवेति वाच्यम, संयोगस्य धवच्छिन्नत्वनियमेऽपि द्विसमवेतत्वनियमे मानाभावेन स्वस्मिन्नपि स्वक्रियया अवच्छेदकान्तरे स्वसंयोगे बाधकाभावात् । अन्यथा एकतन्तुकपटं प्रति असमवायिकारणस्यासंभवाद, अंशद्वयसंयोगस्य विरुद्धत्वात् , नहि तत्रांशुदयमेव पटसमवायिकारणं द्रव्यवति द्रव्यान्तरानुत्पत्त्या तन्तुमत्यंशौ पटोत्पत्तेरसंभवात् , मूर्तयोः समानदेशताविरोधाच्च । न द्रव्यारम्भकतावच्छेदकसंयोगनिष्ठवजात्यस्य फलबलकल्प्यतया तन्तुनिष्ठपवनादिसंयोग एव तत्र पटासमवायिकारणं, तन्तोस्तादात्म्यसम्बन्धेन पटसमवायिकारणतया च पवनादौ न पटोत्पत्तिः, समवायिमावत्तिसंयोग एवासमवायि. कारणमिति नियमस्य पाकजस्थल एव व्यभिचारादिति वाच्यम् । तथापि तत्र मूलापावच्छेदेन तन्तुसंयुक्तस्तन्तुरिति प्रत्ययस्य विना बाधकं भ्रमत्वायोगात् इति चेत्, न, स्वस्मिन् स्वसंयोगाभ्युपगमेऽपि तन्तुस्तन्तुं गच्छती. त्यत्र तन्तुपदद्वयस्य तन्त्ववयवे लाक्षणिकत्वात् । 'रामरावणयोर्युद्धं रामरावण. योरिव'इत्यादौ सादृश्यघटकतद्भिन्नत्वांशस्येव कर्मप्रत्ययार्थस्य परसमवेतत्वांशस्यापि बाधेन तत्रानन्वयेऽपि क्षतिविरहाच्च । नचैवं परसमवेतत्वस्यायोग्यतया अनन्वयेऽपि केवलाधेयत्वांशमादाय विहगस्य महीरुहगमनदशायां विहगो विहगं गच्छतीत्यपि प्रयोगापत्तिरिति वाच्यम् । द्वितीयायाः कर्तृत्वे लक्षणयैव केवलाधेयत्वांशमादायापि तत्र तादृशप्रयोगस्येष्टत्वात् । केचित्तु · परसमवेतत्वाधेयत्वायुभयविषयकशाब्दत्वस्यैव गम्यादिधातुसमभिव्याहृतद्वितीयादिज्ञानकार्यतावच्छेदकतया केवलाधेयत्वांसमादाय विहगस्य महीरुहगमनदशायां विहगो विहगं गच्छतीति न प्रयोगः । तन्तुस्तन्तुं गच्छतीस्यादौ तन्तुद्वयपदे लक्षणैव गतिः,गम्यादिपदसमभिव्याहृतत्वस्य द्वितीयादि. विशेषणतया पचेः साकासत्वाद्विक्लित्तिजनकक्रियायां शक्तिरिति मते पाके परसमवेतत्वस्य बाधितस्वेऽपि तण्डुलं पचतीत्यादिवाक्यस्य नायोग्यत्वापत्तिः, न वा आत्मविषयकसाक्षात्कारस्य आत्मभिन्नसमवेतत्वेप्यात्मानमात्मा साक्षाकरोतीत्यादिवाक्यस्यायोग्यत्वापत्तिरित्याहुः।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy