________________
१३ ग्रन्थः ]
आख्यातशक्तिवादः ।
१३५
भूमिं प्रयाति विहगो विजहाति महीरुहं न तु स्वात्मानमित्याद्यनुरोधात्, क्रियान्वयि परसमवेतत्वमपि कर्मप्रत्ययार्थः । इयांस्तु विशेषो यत्परत्वं सुपा प्रकृत्यर्थापेक्षिकं तिङादिना च स्वार्थफलाश्रयापेक्षिकं प्रत्याय्यते ॥ १३ ॥
निर्वाहादित्यभिप्रेत्याह- आस्तां वेति । विशिष्टस्त्विति । गच्छतीत्यादौ जनकतया फलविशिष्टो व्यापारः, गम्यत इत्यादौ जन्यतया विशिष्टं फलमित्यर्थः । वस्तुतः प्रयोजकत्वं प्रयोज्यत्वं वा संबन्धः । तेन पथा गच्छति काश्यां गच्छतीत्यादिप्रयोगोऽपि संभवति । सप्तम्यर्थस्यापि गम्याद्यथं एव फलबलादन्वयस्वीकारादिति दिक् । एवं च द्वितीयाया आधेयत्वं कर्माख्यात• स्याश्रयत्वं कर्मकृतामाश्रयोर्थः । एवं क्रमेण फलार्थाभिघान एव च द्वितीयेति बोध्यम् ॥ १२ ॥
•
( मथु० ) अनुरोधादिति । गमनादिफलस्य भूमिवृक्षादिनिष्ठसंयोगविषागादेरात्मनिष्ठत्वेऽपि आत्मानं प्रयाति, आत्मानं विजहातीव्यायव्यवहारादिति भावः । परसमवेतत्वस्य फलान्वयित्वे तद्दोषतादवस्थ्यादुक्तं क्रियान्वयीति धात्वर्थान्वयीत्यर्थः तच्च कुत्र तस्यान्वय इति बोधनाय, न तु तदन्तर्भावेनार्थः । समवेतत्वमपि तेन संबन्धेन परस्यान्वयबोधनाय । परमेव चार्थः, परत्वं भिन्नत्व यथाकथंचित्संबन्धेनान्वये कालिकादिसंबन्धमादाय उक्तदोषतादवस्थ्यादिति ध्येयम् । किमपेक्षया परत्वप्रतिपत्तिरित्यत आह-इयां स्त्विवि सुपा कर्मविहितसुपा । प्रकृत्यर्थेति स्वार्थाधेयत्वादि प्रकारीभूता या व्यक्तिः तदपेक्षिकमित्यर्थः । आदिपदात् अस्तु वा कर्माख्यातस्यैव द्वितीयादेि फलमर्थ इति मते स्वार्थफलपरिग्रहः । इत्थं च भूमिं प्रयाति इत्यादौ भूमिवृत्तिसंयोगजनक भूमि भित्रसमवेतस्पन्दाश्रय इत्याद्यन्वयबोधः भूम्यादेर्भेदबदेकदेशभेदेऽन्वयश्च । द्वितीयार्थाधेयत्वादौ प्रकारीभूता या भूम्यादिव्यकिस्तव्यक्तित्वावच्छिन्न प्रतियोगिता संबन्धेन तथैव व्युत्पत्तेः नतु प्रतियोगिता सामायेन, प्रकृत्यर्थावच्छेदकावच्छिन्न प्रतियोगिताकत्वसंबन्धेन वा, आये विहया महीरुहगमनदशायां विहगो विहगं गच्छतीति प्रयोगापत्तेः, विहगस्यापि व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिता कविहगभेदवत्वात् । द्वितीये प्रमेव गच्छतीत्यादिव्यवहारस्यायोग्यत्वप्रसङ्गात् विहगस्प विहगान्तरम मनदशाना
"