SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ २३४ वादार्थसंग्रहः [४ भागः नुशिष्यते तादृशत्वमेव सकर्मकत्वमस्त्वित्यत आह-ताशेति । मुख्यभाक्तगधारणसकर्मकघातुयोग एवेत्यर्थः । तत्र चेति । आधेयत्वस्याखण्डत्वे आधेयत्वे शक्तिरितरथाधेयत्वे निरूढलक्षणा । लाघवादेकत्वादावेव शक्तेरिति बोध्यम् । तच्च आधेयत्वं च । अत एव द्वितीयार्थाधेयत्वस्यैकदेशान्वयित्वादेव । पदार्थान्वितेति । भूतले घट इत्यादौ पदार्थ एव सप्तम्यर्थाधेयत्वमन्वेति, न तु पदार्थकदेश इति न ग्रामे त्यजतीति प्रयोग इति भावः । अथ स्तोकमा प्रयातीत्यादौ सप्तम्यर्थस्य कान्वयः ? गमन एवेति चेत्तर्हि सजतीत्यत्र त्यागेऽप्यस्त्विति चेत् भवत्येव । द्वितीयाथैकदेशे फल एवान्वयाब्रीकारात् । अतएव कर्माकाङ्क्षाप्यत्र । तर्हि प्रयातीत्यत्रापि सा स्यादिति चेत् स्यादेव । काश्यामयं गृहं प्रयातीति प्रयोगात् । अत्र हि सप्तम्यर्थोऽवछिन्नत्वमेवेति फलान्वयाकाङ्क्षा युक्तैव । नच स्वावयवे गच्छतीत्यपि स्यात् । स्वावयवाद्यतिरिक्तावच्छिन्नत्व एवात्र सप्तम्या निरूढत्वात् । एतेन भूमाव. प्यत्वयः पतेरधःसंयोगावच्छिन्नव्यापारे शक्तौ सप्तम्यर्थस्यैकदेशान्वय एव संभ. वति । अवच्छिन्नत्त्रस्य सप्तम्यर्थत्वे स्वावयवे पततीत्यादेः प्रसङ्गादित्यपि प्रत्युक्तम् । अथ पथि काश्यां गच्छतीति न स्यात् गमनस्य काश्यनवच्छिन्नत्वादिति चेत्, न, आधेयत्वसप्तम्यर्थस्याप्येकदेशान्वयात् । न चात्र फल. व्यापारी, यथायथमर्थ इति तत्प्रयोगोपपत्तिः । गत्यादिमत्त्वमात्रप्रतीतेरिति प्रकृतग्रंथविरोधादिति ध्येयम् । एकदेशान्वयासहिष्णुराह-स्तुवेति । इत्थं च प्रामं गच्छतीत्यादेामनिष्ठसंयोगजनकक्रियेत्यादिबोध: । नन्वेवं व्यापारमात्रं पात्वर्थोस्तु सकर्मकत्वव्यवहारस्तु कुत्रचिदेवार्थकस्यचिदेव धातोः फलतद्वितीयादिसाकाङ्क्षत्वादेव । नच द्वितीयादे: फले शक्त्यन्तरमपेक्ष्य क्लप्तधातुशक्तेखच्छेदकत्वमेव लघु । एकदेशान्वयापत्तेः । फलव्यापारयोजनकत्वात्मके संबन्धेऽपि शक्तेर्वक्तव्यत्वेन तथैव गौरवाच । किंचात्मनेपदस्यैव फले धातो. ापारमात्रे शक्तिर्गम्यत इत्यादावेव मुख्यप्रयोगः । ग्राम गच्छतीत्यादौ तु संयोगावच्छिन्नव्यापारे धातोर्लक्षणा । किंवा द्वितीयाया एव फले धातोापारमात्रे शक्तिः । ग्रामं गच्छतीत्यादावेव मुख्यः प्रयोगो गम्यत इत्यादौ घातोापारजन्यफले आख्यातस्याश्रयत्वे लक्षणेत्यत्र विनिगमकाभावाद्वितीयायाः कर्माख्यातस्य च फलमर्थोऽस्तु, धातोस्तु व्यापारमात्रम् । इत्थं च फलस्यापि न द्विधा भानमिति चेत्, न त्यजिगम्यादेः पर्यायतापत्तेरुक्तत्वात् । अथ द्वितीयात्मनेपदयोर्न फलमर्थः, किंतु घातोरेव । तदर्थफलेनेवोभयत्र
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy