SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] माख्यातशक्तिवादः। विभागप्रयोजिका चेष्टा, विभागजनिका चेष्टैव वा । तत्र विभागरूपे फले द्वितीयाद्वयार्थ आधेयत्वमन्वेति । परसमवेतत्वं च चेष्टायाम् । तथा च गोवृत्तिपयोवृत्ति-विभागजनकगोपयोभिन्नसमवेतचेष्टानुकूलकृतिमान् गोपालक इति बोधः । गौर्दुह्यते पयो गोपालकेनेत्यत्र गोपालकवृत्तिकृतिजन्या या पयोवृत्तिविभागप्रयोजकपयोभिन्नसमवेता चेष्टा गोभिन्नसमवेता तजन्यविभागशालिनी गौरिति गोरूपकर्मविशेष्यको बोधः । तस्यैवोक्तकर्मत्वानुशासनेन प्रथमान्तपदोपस्थाप्यत्वात् , दलद्वयविभागयोरेक्यं व्युत्पत्तिसिद्धम् । तेन देवदत्तेन दिशं कालस्त्यज्यत इति न प्रयोगः । दिवृत्तिविभागानुकूलस्पंदजन्यविभागाश्रयत्वेऽपि कालस्य, कालदेशविभागयोरैक्याभावात् । परसमवेतत्वोपादानाद्विहगेन स्वात्मानं त्यज्यते महीरुह इत्यादयो न प्रयोगाः। एवं कर्तृप्रत्ययेऽप्युदाहार्यम् । नीधातुरपि प्राप्त्यवच्छिन्नक्रियावाची द्विकर्मकः । प्राप्तिामभारादिफलस्य कर्मद्वयान्वितत्वात् । क्रिया परंपरया प्राप्त्यनुकूला चैत्रादिनिष्ठा ग्राह्या, न तु भारादिनिष्ठा परसमवेतत्वाभावात् । अन्यथा चैत्रश्चैत्रं ग्रामं नयतीत्यादिप्रयोगापत्तेश्च । स्वयमेव स्वं नरकं नयतीत्यादिप्रयोगसंभवे गौणत्वमेव । तथा च चैत्रो भारं ग्रामं नयति, चैत्रेण नीयते भारो ग्राममित्यादावप्युक्तप्रायो बोधः । अत्र प्रधानभारकर्मविशेष्यको बोधः । तस्यैवोक्तत्वादिति विशेष:। तदुक्तम्-दुहादेौणकं कर्म नीरुहा (हृा) देः प्रधानकम् । इति । ग्रामं गमयति देवदत्तं मैत्र इत्यत्र च ग्रामो गमे: कर्म, देवदत्तश्च कर्ता, तदुत्तरं द्वितीयापि कर्तृबोधिका । कर्तृत्वं च गमादिधात्वर्थे । तथा च प्रामवृत्तिसंयोगजनिका ग्रामान्यसमवेता क्रिया देवदत्तकर्तृकर्मा, तदनुकूलव्यापारो देवदत्तान्यसमवेतस्तदाश्रयो मैत्र इति बोधः । ग्रामो गम्यते देवदत्तं मैत्रेणेत्यत्र प्रधानकर्मग्रामविशेष्यको बोधः । ददातेश्च स्वत्वध्वंस एव धात्वर्थतावच्छेदकं फलं, न तु परस्वत्वं, तेन संप्रदाने न कर्मत्वापत्तिः । स्वत्वस्य संप्रदानानिष्ठत्वान्न तदापत्तिरिति चेत्, तथापि दानात्स्वस्वत्वध्वंसमात्रं, परस्वत्वं तु प्रतिबन्धकाभावविशिष्टप्रतिग्रहादिति मते तस्य परस्वत्वानवच्छिन्नत्वात् , गृह्णातीत्यादौ ददात्यप्रयोगात् , स्वत्वध्वंसावच्छिन्नव्यापारविशेषाभावात्, परस्वत्वोद्देश्यकत्वस्य ददात्यर्थान्तर्भूतत्वाद्वा । अतएव न तत्फलं ददातेः । प्रतिग्रहादिधातोस्तु स्वत्वं फलमित्यलमप्रकृतेन । नन्वेवं धात्वर्यतावच्छेदकं फलं यत्र नास्ति तत्र जानात्यादौ सकर्मकत्वव्यवहारे न स्यादत आह-भाक्तस्त्विति । न तु यादृशधातुयोगे कर्मप्रत्ययो १२
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy