________________
१३२
वादार्थसंग्रहः
[४ भागः
दित्येवान्वयबोध इति भावः । ननु तथाविधवाक्यजन्यबोधे संयोगस्य वारद्वयं भानमनुभवविरुद्धमित्यत आह—आस्तां वेति । न चै गमिपत्योः पर्यायतापत्तिरिति वाच्यम् । यत्पदशक्यतावच्छेदकताव्यापकशक्यतावच्छेदकताकत्वं यत्र तिष्ठति तत्तत्पदानामेव पर्यायत्वादिति भावः ।
ननु फलव्यापारयोर्धात्वर्थत्वे तत्र कयं फलजनकव्यापारबोधनिर्वाह इत्यत आह-विशिष्टस्त्विति । जनकतासंबन्धेन फलविशिष्टव्यापारस्त्वित्यर्थः । अन्वयबललभ्य इति । फलव्यापारयोः परस्परमन्वयालम्य इत्यर्थः । तथा च व्युत्पत्रिविचित्र्यादेकपदार्ययोरपि परस्परान्ययबोधस्वीकारेण तथाविधविशिष्टबोधनिर्वाह इति भावः ॥ १२ ॥
(जय०) ग्रामादेर्गम्यादिकर्मकव्यवहारान्यथानुपपत्त्या धातोः फलार्थत्वं साधयति-अपि चेत्यादि । गमिपत्योरिति । पते: पतनार्थेऽकर्मकत्वं गमनायें तूत्तरदेशकर्मकत्वं, गतावपि तद्धात्वनुशासनात् । अत एव नरकं पतितो नरकपतित इत्यादौ द्वितीयातत्पुरुषोऽपीति भावः । अपतत् पपातेत्यादावुत्तरदेशकर्मकत्वमित्याशयेनेदमित्यन्ये । इदं तु बोध्यम्-पतनस्य पतनत्वजात्या पत्यर्थत्वेऽप्युक्त्वा पवतीत्यादावधःसंयोगावच्छिन्नव्यापारे निरूढलक्षणायां न सकर्मकत्वमिति–पूर्वस्मिन्निति । विभागात्मकफलवत्त्वादिति भावः । उत्तरस्मिन्निति । संयोगात्मकफलवत्त्वादिति भावः । धात्वर्थतावच्छेदकफलवत्त्वं तु नैतेषु । गमे: संयोगावच्छिन्ने पते: क्वचित्संयोगावच्छिन्ने त्यजेर्विभागावच्छिन्ने स्पन्देनिरवच्छिन्ने कर्मणि शक्तिः । इत्थं च प्रामो गमे: कर्मेत्यादौ कर्मपदार्थों धात्वर्थतावच्छेदकफलवांस्तदेकदेशे धातोर्गम्यादेरभेदेनान्व. यानातिप्रसङ्गः। न च कर्मपदं न शक्तं किं तु सांकेतिकमेवेति वाच्यम् । वैयाकरणेन तदये संकेतितत्वेऽपि धातोः फलावच्छिन्नबोधकत्वे सिद्धे व्यवहारादपि शक्तिमहादन्यथा कृतो व्यवहारबलात्कृतो यत्नार्थकता न स्यात् । वस्तुत आद्यव्याकरणकर्तेश्वर एवेत्यदोष इति बोध्यम् ।।
ननु कर्मपदमपि नानार्थ तत्तद्धातुसमभिव्याहारेण विशिष्य तत्फलबोधकमिति नेते दोषा इत्यत आह-फलावच्छिन्नेति । तया च पतिगम्योरपि यदा धात्वर्यतावच्छेदकफलाविवक्षा तदाऽकर्मकत्वमिति भावः । द्विकर्मकघातुत्वं चोभयकर्मान्वितफलावच्छिन्नव्यापारबोधकधातुत्वम् । उभयकर्मणां धातुत्वं वा। यथा गां दोग्धि पयो गोपालक इत्यादौ दुहादिधातः । दुधात्वयों द्रवद्रव्य
१ वापत्तिरिति पाठः।