________________
१३ ग्रन्थः] आख्यातशक्तिवादः इष्टापत्तेरत आह—तादृशधातुयोग एव चेति । उपर्शित(सकर्मक)धातुयोग एवेत्यर्थः । तथा चानुगतकर्मत्वानिर्वचने सकर्मकधातुयोगे कर्मप्रत्ययविधानस्याननुगतत्वापत्तेरिति भावः । अत्रेदमवधेयम्- यद्यपि धातुत्वस्य तदर्थतावच्छेदकत्वस्य चैक्याभावेन धात्वर्यतावच्छेदकफलशालित्वरूपकर्मत्वमपि नानुगतम् । एवं तादृशसकर्मकत्वविरहेऽपि जानातीत्यादौ यथा तत्तद्धातुयोगे कर्मप्रत्ययविधानं तथा विशिष्य गम्यादियोगेऽपि कर्मप्रत्ययविधानं संभवत्येव । , तथा च तत्तद्धातुयोग्यतत्तत्फलशालित्वरूपाननुगतकर्मत्वनिर्वचनेऽपि न दोषः । कर्मप्रत्ययविधानेऽनुगतशब्दान्तरस्य प्रकारान्तरेणापि संभवादिति व्यापारमात्रस्य धात्वर्थत्वेऽपि न दोषः । तथापि तत्तद्धात्वर्थतत्तक्रियाजन्यफलशालित्वरूपमननुगतकर्मत्वमुक्त्वा व्यापारमात्रस्यैव धात्वर्थत्वे त्यजिगम्योः पर्यायतापत्तिरूपदोषो दुरुद्धर एव ।
ननु फलावच्छिन्नव्यापारस्य धात्वर्थत्वे ग्रामं गच्छतीत्यादौ प्रामादिरूपनामार्थस्य कुत्रान्वयः ? न तावद्धात्वर्यैकदेशे फले, धात्वर्थनामार्थयोर्भेदान्वयबोधानभ्युपगमादतआह–अत्र चेति । ग्रामं गच्छतीत्यादौ चेत्यर्थः। तच्चेति । द्वितीयार्थवृत्तित्वं चेत्यर्थः । आकाङ्कादिवैचित्र्यादिति । पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेनेति व्युत्पत्तेः संकोचकल्पनादित्यर्थः । तथा च तत्रैव प्रामादिरूपनामार्थस्यान्वयो न तु पदार्थैकदेशे फल इति भावः । ननु ग्रामं गच्छतीत्यादौ धात्वर्थे कर्मकारकस्याधिकरणत्वेनान्वये ' कर्मणि द्वितीया । इति पृथक्सूत्रप्रणयनं निरर्यकमेव, ' सप्तम्यधिकरणे च ' इत्यत्र द्वितीयासप्तम्यावधिकरणे च इति करणेनैव निर्वाहादित्यत आह–अत एवेति । धात्वर्थतावच्छेदकफले द्वितीयार्थवृत्तित्वस्यान्वयादेवेत्यर्थः । तथा च सप्तम्यर्थवृत्तित्वस्य धातुशक्तिमुख्यविशेष्येऽन्वयः । द्वितीयार्थवृत्तित्वस्य धात्वर्थेकदेशे फलेऽन्वय इति स्वमार्य तत्र पृथक्सूत्रप्रणयनमिति भावः ।
नन्वेवं सति पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेत्येतादृशव्युत्पत्ते: संकोचकल्पने गौरवमित्यत आह–अस्तु वेति । फलमर्थ इति । तथा च फलावच्छिन्नव्यापारस्य धात्वर्थत्वे फलमेव द्वितीयार्थः। तच्च जनकतासंबन्धेन धात्वर्थेऽन्वेति, आधेयत्वं तु द्वितीयार्यकर्मकारकयोः संबन्धमर्यादया भासते । तथा च ग्रामं गच्छतीत्यादौ, ग्रामविशिष्टसंयोगविशिष्टसंयोगानुकूलकृतिम
१ शब्दोत्तरस्य प्रकारान्तरेणाप्यसंभवादिति पाठः । २ कृतिरित्येवेति पाठः।