SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३० वादार्थसंग्रहः [४ भागः निरवच्छिन्नप्रकारतासंबन्धेन पदनिरूपितशक्तिज्ञानस्य हेतुत्वकल्पनस्यावश्यकतया कथं फलत्वविशिष्टे आख्यातादिपदनिरूपितशक्तिज्ञानात्संयोगत्वादौ शाब्दबोधः । तदा संयोगत्वे उपदर्शितसंबन्धेनोपर्शितकारणविरहात् । नच विषयभेदेन तादृशकार्यकारणभावकल्पने प्रकृतस्थले स न कल्प्यत इति वाच्यम् । विषयभेदेन कार्यकारणभावकल्पनेगौरवात् । न च तदादिपदाद्विशिष्य शाब्दबोधानुपपत्या तथा कल्पनमावश्यकमिति वाच्यम् । अनन्तकार्यकारणभावकल्पनमपेक्ष्य तदादिपदानां विशिष्य शक्तिकल्पनस्यैवोचितत्वादिति प्रकृतेपि विशिष्य शक्तिरावश्यकी त्यभिप्रायेण प्रकारान्तरेण कर्मत्वनिर्वचनमुखेन व्यापारमात्रस्य धात्वर्थत्वे दूषणमाह-अपि चेति । धात्वर्थतावच्छेदकफलेति धोत्वर्थतावच्छेदकतापि फले विवक्षितेत्यर्थः । गमिपत्योः कर्मत्वस्येति । अत्र च धात्वर्थगमनादिक्रियाजन्यविभागरूप फलस्य पूर्वदेशेऽपि सत्त्वाद्गमिपत्योः पूर्वदेशस्यापि कर्मत्वापत्तिः, एवं त्यजिक्रियाजन्यसंयोगरूपफलस्य उत्तरदेशे सत्त्वादुत्तरदेशस्यापि त्यजेः कर्मत्वापत्तिः । तथा स्पन्दजन्यविभागादिरूपफलस्य पूर्वापरदेशयोः सत्त्वात्स्पन्देरुभयत्र कर्मत्वापत्ति: । अतो न धात्वर्थजन्यफलशालित्वं कर्मत्वं, किंतु धात्वर्थतावच्छेदकफलशालित्वं तत् । तत्र च नोपदर्शितानुपपत्ति:; उत्तरदेशसंयोगरूपफलस्यैव गमधात्वर्थतावच्छेदकतया तस्य पूर्वदेशे अभावात् । एवमधःसंयोगस्य पतेरवच्छेदकत्वात्तस्य च पूर्वदेशे अभावान्न गमिपत्योः पूर्वदेशेऽकर्मत्वापत्तिः । एवं विभागस्य त्यजिक्रियावच्छेदक. तया तस्योत्तरदेशेऽभावान्नोत्तरदेशे त्यजि कर्मत्वापत्तिः । स्पन्देश्च अवच्छे. दकफलाभावेन नोभयत्र कर्मत्वापत्तिरिति । व्यापारमात्रस्य धात्वर्थत्वे ग्रामं गच्छतीत्यादौ कर्मत्वबोधानुपपत्तिरेव दोष इति भावार्थोऽवसेयः । __ननु तत्तद्धात्वर्थजन्यतत्तत्फलशालित्वमित्यननुगतं कर्मत्वमस्तु, अनुगतकर्मत्वनिर्वचने प्रयोजनाभावादतोऽनुगतकर्मत्वनिर्वचनप्रयोजनमाह-फलावच्छिन्नेति । फलजनकेत्यर्थः । सकर्मकत्वव्यवहार इति । तथा च अनुगतकर्मत्वानिर्वचनेन अनुगतसकर्मकत्वव्यवहार विलोपप्रसङ्ग इति भावः । नन्वेवं सति जानातीत्यादौ कथं सकर्मकत्वव्यवहार इत्यत आह-भाक्तस्त्विति । लाक्षणिक इत्यर्थः । तथा चोपदर्शितसकर्मकत्वं मुख्यसकर्मकत्वव्यवहारनियामकं सविषयत्वादिकं तु भाक्तसकर्मकत्वव्यवहारनियामकमित्यतो न दोष इति भावः । ननु अननुगतमेव कर्मत्वमस्तु । अनुगतव्यवहाराभावे १ धात्वर्थतावच्छेदकतावच्छेदकविशिष्टफलेत्यर्थः इति पाठः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy