SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] आख्यातशक्तिवादः। १२९ व्यापारबोधकत्वादन्यन्न संभवतीति पचधात्वादौ भूधात्वादिव्यावृत्तसकर्मकत्वव्यवहारवलेन पचधात्वादौ फलावच्छिन्नध्यापारशक्तिसितिरिति भावः । ननु यदि फलावच्छिन्नम्यापारबोधकधातुत्वमेव सकर्मकधातुत्वं तदा शुद्धमानादिवाचिज्ञाधात्वादीनां सकर्मकत्वव्यवहारानुपपत्तिः, तथाच तत्र सकर्मकधातुयोगविहितकर्मप्रत्ययादिर्न स्यादित्यत आह-भाक्तस्त्विति गौण इत्यर्थः । ज्ञानार्थादेर्शाधात्वादेः सकर्मकत्वव्यवहार इत्यस्यापत्तिः। अत्र च ज्ञाधात्वायन्यत. मत्वमेव भक्तिः। नन्वेवं सकर्मकधातुयोगविहितद्वितीयादिविधायकसूत्रे सकर्मकप. देन यदि फलावच्छिन्नव्यापारगोधकधातुरुच्यते तदा ज्ञानार्थादियोगे द्वितीयानुपपत्तिः, यदि च ज्ञाधात्वायन्यतमधातुरेव तत्रस्थसकर्मकपदार्थस्तदापच्यादियोगे कर्मप्रत्ययानुपपत्तिरित्यत आह--तादृशेति । फलावच्छिन्नव्यापारबोधकपच्या. दि-शादिधात्वावन्यतमयोगे द्वितीयादय इति तत्सत्रार्थ इति नोक्तदोष इत्यर्थः । ननु फलावच्छित्रव्यापारस्य धात्वर्थत्वे द्वितीयादेर्न फलमोंऽन्यलभ्यत्वात्, तथाच कथं धात्वर्थप्रातिपदिकार्थयों देन साधादन्वयबोधो भविष्यतीत्वतआह-तत्रेति । तत्र तण्डुलं पचतीत्यादौ । द्वितीययेति । तथाच तत्र द्वितीयार्थाधेयत्वस्यैव धात्वर्थेऽन्वयो न तु प्रातिपदिकार्थस्येति नोकदोष इति भावः । ननु धात्वर्थफले द्वितीयाधेियताया अनन्वयः एकदेशत्वात् , फलाव. च्छिन्त्रव्यापारे व तण्डुलायाधेयताया नान्वयः, अयोग्यत्वादित्यत भाहतश्चेति। द्वितीयार्थाधेयस्वच इत्यर्थः । तथेत्यस्यान्वेतीत्यनेनान्वयः। आकाङ्केति। अन्यत्रैकदेशान्वयस्य निराकाङ्कत्वेऽप्यत्र साकाङ्गत्वे पदार्थैकदेशीभूतफलान्वितवार्थान्वयस्वीकारादित्यर्थः । नन्वेवं तत्र तत्र द्वितीयास्थले सप्तम्यापत्तिः आधे. यत्वतात्पर्यशायां सप्तम्या एव साधुत्वादित्यत आह-अत एवेति । अत रव द्वितीयायाः पदार्थतावच्छेदकान्विताधेयत्वबोधकत्वादेव । तथाच पदार्थान्विताधेयत्वतात्पर्यदशायां सप्तमी,पदार्थैकदेशान्विताधेयत्वतात्पर्यशायां च देतीयेत्यर्थः । नन्वेवं कर्मप्रत्ययस्थले ये ये पदार्था येन येन रूपेण विशेषणीभूय नासन्ते त एव पदार्थाः कर्तृप्रत्ययजन्यबोधे विशेषणीभूय भासन्ते इति पर्वैरवधारितं [तद्विरोधः], कर्मप्रत्ययस्थले धात्वर्थविशेष्यीभूय भासमानस्य गगत्वर्थजन्यफलस्य कर्तृप्रत्ययस्थले धात्वर्थविशेषणत्वेन भानादित्यत आहअस्तुवेति । तथाच जनकतासंबन्धेन द्वितीयार्थफलस्य धात्वर्थ एवान्वयः । इत्थं च एकदेशान्वयोऽपि नास्तीति भावः ॥ १२ ॥ (रघु०) नेनु जातित्वेन घटत्वादिप्रकारकघटपदनिरूपितशक्तिग्रहात्स्वरूपतो टत्वादिप्रकारकबोधापत्तिवारणार्थ निरवच्छिन्नप्रकारतासंबन्धेन शाब्दबुद्धिं प्रति १' ननु घटादिपदनिरूपितशक्तिशानाजातित्वेन घटात्वादिप्रकारकपदनि.' ति पुस्तकत्रये पाठः।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy