SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२८ वादार्थसंग्रहः [४ भागः केचित्तु काख्यातस्थल इव कर्माख्यातस्थलेऽपि फलं विशेषणं व्यापारी विशेष्यः व्युत्पत्तिभेदकल्पनायां मानाभावात् किंतु कर्माख्यातस्यापि फलमर्थः। तेन गम्यते ग्रामश्चैत्रेणेत्यादौ चैत्रनिष्ठकृतिजन्यसंयोगावच्छिन्नस्पन्दजन्यफलशाली ग्राम इत्यन्वयधीः । कर्मकृतश्च फलविशिष्टोऽर्थः, तेन गतो ग्रामश्चैत्रेणेत्यादौ यथोक्तस्पदजन्यफलविशिष्टाभिन्नो ग्राम इत्यन्वयधीः । अतएव परत्वं सुपा प्रकृत्यर्थापेक्षिकं तिडादिना च स्वार्थफलाश्रयापेक्षिकं प्रत्याय्यते इति वक्ष्यमाणव्युत्पत्ति: साधु सङ्गच्छते, अन्यथा तिडादेः फलार्थकत्वाभावादन कल्पे तदसङ्गतत्वापत्तिरित्याहुः॥१२॥ (राम०) ननु यथा सर्वनानां नानाप्रवृत्तिनिमित्तकत्वेऽपि न नानार्थव्यवहारविषयता नानार्थव्यवहारविषयतावच्छेदके सर्वनामभिन्नत्वविशेषणोपादानात् , तथा त्यजि-गम्योर्व्यापारमात्रवाचकत्वेऽपि पर्यायव्यवहारविषयतावच्छेदके त्यजिगमिभिन्नत्वविशषणादेव न पर्यायव्यवहारविषयता इत्यतो पुत्त्यन्तरेण गम्यादीनां संयोगादिरूपफलावच्छिन्नव्यापारे शक्ति व्यवस्थापयति-अपि चेति । 'धात्वर्थेति तद्वात्वर्थतावच्छेदकफलशालित्वं तहात्वर्थकर्मत्वव्यवहारविषयतावच्छेदकमित्यर्थः, तेन न गमिधात्वर्थतावच्छेदकफलशालिनि त्यजिकर्मत्वप्रसङ्गः । तथाच यदि व्यापारमात्रं गम्यावर्थो न तु संयोगावच्छिन्नव्यापारादिस्तदा गम्यादिकर्मत्वव्यवहारविषयतावच्छेदकस्य दुर्वारत्वापत्तिरिति भवन्मते फलस्य शक्यतावच्छेदकत्वविरहात् धात्वर्थतावच्छेदकफलशालित्वस्याप्रसिद्धेः प्रकारा. न्तरस्यासंभवाच्च फलस्य धात्वर्थतावच्छेदकत्वमङ्गीकृत्य धात्वर्थतावच्छेदकफलशालित्वमेव तत्तद्धात्वर्थकर्मताव्यवहारविषयतावच्छेदकं वक्तव्यमिति भावः । ननु धात्वर्थजन्यफलशालित्वमेव तत्तद्वात्वर्थव्यवहारविषयतावच्छेदकमितिन तस्य दुर्वचतेत्यत आह-न तु धात्वर्थेति । कर्मत्वमित्यनुषज्यते । पूर्वस्मिन्निति । तत्रापि गम्यर्थ-पत्यर्थस्पन्दरूपव्यापारजन्यपूर्वदेशविभागरूपफलशालित्वस्य सत्त्वादित्यर्थः । त्यजेरिति स्वार्थस्पन्दव्यापारजन्योत्तरसंयोगशालित्वस्य उत्तरदेशेऽपि सत्त्वादित्यर्थः । स्पन्देरिति स्पन्दजन्यविभागस्योत्तरसंयोगस्य वा पूर्वापरदेशयोः सत्त्वेन स्पन्देः सकर्मकत्वप्रसङ्गादित्यर्थः । न चेष्टापत्तिः, स्पन्देरकर्मकधातुत्वादिति भावः । धात्वर्थतावच्छेदकत्वेन फलस्य कर्मत्वविषयतावच्छेदकत्वे च नोक्त दोषः, स्पन्देः केवलस्पन्दशक्तत्वेन फलस्य स्पन्दिधात्वर्थतावच्छेदकत्वाभावादिति ध्येयम् । नतु यहात्वर्थजन्ययवफलवत्येव यदात्वर्थकर्मत्वव्यवहारस्तदात्वर्थजन्यतत्फलशालित्वं तद्धात्वर्थकर्मत्वमित्यवगतमेव फलानुसारेण कर्मत्वलक्षणं कर्त्तव्यमित्यत आह-फलेति । धातूनां पच्यादिधातूनां, तथाच पचिधातुः सकर्मकः न भूधातुरित्यादिव्यवहारविषयतावच्छेदकं सकर्मकत्वं वाच्यं तच्च फलावच्छिन्न
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy