SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४५ १३ ग्रन्थः ] आख्यातशक्तिवादः। इत्यादिवाक्यैकवाक्यतानुपपत्तिः । विशिष्टैकार्थप्रतिपादकत्वविरहादित्यत आह-अन्वयेति । एकत्रेति । चैत्रो घटं जानातीत्यादाविस्यर्थः । तत्र, कर्तरि मुख्य विशेष्ये । क्रिया, ज्ञानादि । तत्र क्रियायां ज्ञानादौ । तत्र विषयितायाम् । कर्म घटादि । अन्यत्र, चैत्रेण ज्ञायते घट इत्यादौ । कर्मणि घटादौ मुख्यविशेष्ये । विषयतेत्यादौ विशेषणमित्यस्यानुषङ्गः । तत्र विषयितायाम् । क्रिया ज्ञानादि । तत्र क्रियायाम् । तत्र च आधेयत्वे च । कर्ता चैत्रादिः । तथाच चैत्रो घटं जानाति चैत्रेण घटो ज्ञायते इत्यादी विशेष्य-विशेषणभावभेदादेकवाक्यतामङ्गः सर्ववादिसिद्ध इति भावः। ननु सविषयकार्थकधातुयुक्तकर्मप्रत्ययेन यदि विषयवं प्रतिपायते तदा चैत्रेण ज्ञातो घट इत्यादौ कर्मप्रत्ययार्थघटयोरभेदान्वयबोधो न स्यादिति । एवं सविपयकार्थकधातुयुक्तकर्तृप्रत्ययेन यवाश्रयत्वं प्रतिपाद्यते तदा चैत्रो घठस्य ज्ञाता इत्यादी घटकाचोरभेदान्वयबोधो न स्यात् बाधात् । एवं घटो नष्ट इत्यादी घटं नश्यतीतिवत् प्रतियोगितात्मकस्वेन नष्टपदार्थघटयोरमेदान्वयबोधा. तुपपत्तिरित्यत आह-ज्ञातो ज्ञातेत्यादि । कर्मेति । चैत्रेण घटो ज्ञात इत्यादौ कर्मकृतो विषयोऽर्थः । चैत्रो घटस्य ज्ञातेल्यादौ कर्तृप्रत्ययस्य तृच आश्रयोऽर्थः । घटो नष्ट इत्यादौ कर्तृप्रत्ययस्य कृतः प्रतियोग्यर्थ इत्यादि स्वयमूह्यम् । अतो नाभेदान्वयबोधानुपपत्तिरिति भावः । ननु घट करोतीत्यादि. पद्धर्ट यतते इत्यपि स्यात् । द्वितीयार्थविषयत्वस्य बोधादित्यत आह-यतत इत्यादाविति । विषयिस्वेनेति । द्वितीयावर्थः विषयित्वं, यदि धातुजन्योपस्थितिसहकारेण यत्नेनान्वेति आकांक्षाविरहादित्यर्थः, तर्हि कथं तत्र घटादेइन्वय इत्यत आह-किन्तूद्देश्यत्वेनेति । उद्देश्यत्वं च तत्प्रयोजनकत्वं विषयताविशेषो वेत्यन्यदेतत् । तथाच उद्देश्यत्वबोधाय यतियोगे च चतुर्थीप्रयोग एव माधुरिति भावः । ननु द्वितीयया यतेः कथं नाकांक्षा इत्यत आह-पदेति । तथा च फलबलेनाकांक्षाकल्पनम् । अत्र च फलाभावान तथाकाङ्क्षति भावः । नु न केवळ यस्यर्थे द्वितीयार्थविषयत्वान्वये आकाङ्काविरहमानं बाधकमपितु योग्यताविरहेपीत्याह-अत एवेति । यत्यर्थे द्वितीयाद्यर्थविषयित्वादेरन्वया ङ्गीकारादेवेत्यर्थः । अभुञ्जानेऽपि। भोजनविषयकयत्नविरहिण्यन्नायुपादानतिर्यपि अन्नाधुपादानकाले च भोजनोद्देश्यकान्नायुपादानानुकूलकृतिरेव वर्तते 'ति न तादृशप्रयोगानुपपत्तिरिति भावः ॥ १५ ॥ (रघु० ) तथा सति तत्र तत्रान्वयबोधप्रकारमाह-अन्वयबोधे त्विति । एकत्रेति । कर्तर्याख्यातस्थल इत्यर्थः । अन्यत्रेति । कर्माख्यातस्थल इत्यर्थः । १३
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy