________________
१०५
१३ ग्रन्थः] आख्यातशक्तिवादः। यदि कृत्स्थले कर्ता कर्म च तदर्थस्तदा गन्तेत्यादौ एकदेशीभूतकृतौ गमनादेरन्वयो न स्यात् ‘पदार्थःपदार्थेनान्वेतीति व्युत्पत्तिविरोधेन कृतावेकदेशे पदाथस्य धात्वर्थस्यान्वयासंभवादित्यत आह-चैत्रादन्य इत्यादि । अवान्यपदार्थकदेशेनान्यत्वादिना पदार्थभूतपञ्चम्यर्थावधित्वादेरन्वयवदिहापि चैकदेशान्वयः स्वीकार्य इत्यर्थः । चैत्रस्येति । नतृत्वं च पुत्रपुत्रत्वम्, अत्र चायपुत्रे षष्ट्यर्था-- न्वयस्वीकारात् । इत्यादावित्यादिपदेन पटो घटात् पृथगित्यादिपरिग्रहः । अत्र चैकदेशान्वयदाार्थ नानास्थानमुक्तम् । तथैवेति । अन्यत्र यथा पदार्थेन पदार्थस्यान्वयः साकाङ्को न तु पदार्थैकदेशेन तथात्र पदाथैकदेशेनैव पदार्थस्यान्वयः साकासो न तु पदार्थेन पदार्थस्यान्वय इत्यर्थः । आकाङ्क्षायाः फलबलकल्प्यत्वादिति भावः ।
सर्वत्रैकदेशान्वयमुद्धरतां मतमाह-अस्तु वेति । गन्तेत्यादौ स्वानुकूलकृतिमत्त्वसम्बन्धेन तृजर्थकर्तयेव धात्वर्थत्य गमनादेरन्वयः । चैत्रस्य नप्तेत्यादिस्थलेऽपि चैत्रसम्बन्धस्य षष्ठयर्थस्य निरूपितत्वस्य स्वायजन्यताश्रयजन्यत्वसम्बन्धेन पुत्रपुत्र एवान्वयः । तथाच चैत्रनिरूपितत्ववान् पुत्रपुत्र इत्यन्वयबोधः । चैत्रः पक्तेत्यादौ चैत्रः पाकीयकर्तेत्यन्वयबोधः । पाकीयत्वं च स्वानुकूलकृतिमत्त्वसम्बन्धेन पाकविशिष्टत्वं, तच्च कर्तृत्वं धर्मितावच्छेदकीकृत्य भासते, नतु चैत्रत्वं, तथा सति प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तिभङ्गापत्तेः । एवं चैत्रादन्य इत्यादावपि चैत्रनिष्ठप्रतियोगित्वस्यावधित्वस्य वा पञ्चम्यर्थस्य स्वनिरूपितानुयोगिताश्रयान्योन्याभाववत्त्वसम्बन्धेनान्यस्मिन् धर्मिण्येवान्वयः अन्यत् स्वयमूह्यम् । तथाच न कुत्राप्येकदेशान्वयस्वीकार इति भावः। अस्तु वेत्यादिना अस्वरसाविष्कारः स च तत्तत्स्थले एकदेशान्वयस्वीकारे. बाधकाभावे निरुक्तपरंपरासंबन्धेन तत्तत्पदार्थप्रकारकान्वयबुद्धिं प्रत्याकाङ्क्षाज्ञानादीनां हेतुत्वकल्पने गौरवं मानाभावश्चेत्यादिः ।
सुबर्थकृतिवादिनवीनमते प्रत्ययेन यत्र कृतेरनभिधानं तत्र तृतीया यत्र च कर्मत्वस्यानभिधानं तत्र द्वितीयेत्यनभिहिताधिकारसूत्रस्यार्थः स चानुपपन्नः, चैत्रो जानातीत्यादावाख्यातेनाश्रयत्वस्यैव उक्तत्वेन कृतेरनभिधानात् तृतीयाप्रसगात, चैत्रेण घटो ज्ञायते इत्यादौ आख्यातेन विषयत्वस्यैवोक्तत्वेन कर्मत्वस्यानभिधानात् द्वितीयाप्रसङ्गाचेत्यत आह-मुख्येति । फलादीत्यादिपदेन विषयत्वादेः कृत्यादीत्यादिपदेन आश्रयत्वस्य च परिग्रहः । मुख्यं कर्मवं तण्डुलः पच्यत इत्यादौ, भोक्तं कर्मत्वं चैत्रेण घटो ज्ञायत इत्यादौ, एवं मुख्यं कर्तृत्वं चैत्रः पचती त्यादौ, भाक्तं कर्तृत्वं चैत्रेण घटो ज्ञायत इत्यादौ । द्वितीयादय इत्यादिपदेन तृतीयायाः परिग्रहः। तथाच मुख्य-भाक्तसाधारणकर्मत्वानभिधाने द्वितीया, मुख्य-भाक्तसाधारणकर्तृत्वानभिधाने तृतीयेति