________________
१०६
वादार्थसंग्रहः
[४ भागः
तत्सूत्रार्थो वक्तव्य इति नोक्तदोष इति भावः । ननु तथाप्याख्यातेन कर्मत्वकृर्तृत्वानमिषाने द्वितीया-तृतीये इति सूत्रार्थकरणे कृत्स्थले द्वितीया-तृतीयानियामकानां तत्रानियमप्रसङ्ग इत्यत आह-कृतेति। कृत्प्रत्ययेनेत्यर्थः। विशिष्टाभिधाने कृतिविशिष्टाभिधाने । विशेषणस्य कृतेः। तथाच प्रत्ययेन कर्म-कर्तृत्वानभिधाने द्वितीया-तृतीये इत्याख्यात-कृत्साधारणः सूत्रार्थ इति भावः ॥ ९ ॥
(रघु०) कर्तृकर्मविहिताख्यातशक्तिमुपपाद्य कर्तृकर्मविहितकृत्प्रत्ययशक्तिमुपपादयति-चेत्रो गन्तेत्यादि । अपसार्यतामित्यन्तस्य कर्तृकर्मणी कृद्वाच्ये इत्यनेनान्वयः । कादिविहितकृतः कर्नाद्यवाचकत्वे चैत्रो गन्तेत्यादौ समानलिङ्गकत्वानुपपत्तेः समानलिङ्गकस्थलेऽभेदान्वयबोधस्यानुभवसिद्धतया तस्यानिर्वाहादिति भावः । ननु तादृशानुभवे मानाभाव इत्यत आह-भोक्ता तृप्यतीत्यादि । अत्र च कृत्प्रत्ययस्य कर्नाद्यवाचकत्वे भोजनानुकूलकृतिस्तृप्यतीत्यन्वयबोधः स्यात् । स च विशेषदर्शिनामनुपपन्न इति । विशेषदर्शिनां तादृशवाक्याद्भोजनानुकूलकृतिमांस्तृप्यतीत्याद्यन्वयबोधोपपत्त्यर्थ कादिविहितकृतः कादिवाचकत्वमावश्यकमिति भावः ।
सामानाधिकरण्यादीति अभेदान्वयबोधादीत्यर्थः । आदिना भोक्ता तृप्यतीत्यादौ भोजनानुकूलकृतिमांस्तृप्यतीत्याद्यन्वयबोधपरिग्रहः । ननु कृत्प्रत्ययस्य कादिवाचकत्वे गन्तेत्यादौ धात्वर्थान्वयानुपपत्तिः । कर्नादेः कृत्याश्रयादिरूपतया कृत्यादेः पदार्थैकदेशत्वेन तत्रानुकूलतासंबन्धेन धात्वर्थगमनान्वयासंभवादित्यत आह-चैत्रस्य नप्तेत्यादि । नतृपदस्य जन्यपुरुषजन्यपुरुषरूपपुत्रपुत्रवाचकतया जन्यत्वस्य पदार्थेकदेशत्वेऽपि तत्रैव चैत्रस्येति षष्ठयन्तार्थेस्य चैत्रसंबन्धित्वस्यान्वयः । जन्यपुरुषजन्यपुरुषरूपनमृपदार्थे चैत्रसंबन्धित्वस्यान्वये चैत्रपुत्रेऽपि चैत्रस्य नप्तेति प्रयोगप्रसंगात् । तथा च तत्र यथा पदार्थैकदेशान्वयस्तथा चैत्रो गन्तेत्यादौ पदार्थैकदेशे बोधाङ्गीकारेऽपि क्षतिविरह इति भावः । ननु जन्यपुरुषजन्यपुरुषत्वस्य नप्तृपदशक्यतावच्छेदकत्वे विशिष्टशक्तिकल्पने गौरवापत्त्या तदपहाय जन्यत्वं पुरुषत्वं चेति शक्यतावच्छेदकद्वयमेव तस्य सम्यक् । तथा च चैत्रस्य नतेत्यादौ चैत्रसंबन्धित्वस्य जन्यत्वेऽन्वयः जन्यत्वस्य च पुरुषेन्वयः पुरुषस्य च जन्यत्वेन्वयः जन्यत्वस्य च पुनः पुरुषेऽन्वय इत्येवंरीत्या चैत्रसंबन्धिजन्यताश्रयपुरुषजन्यताश्रयपुरुष इत्यन्वयबोधस्य विनैकदेशान्वयमुपपत्तावुपदर्शितदृष्टान्तोऽसंभवदुक्तिक इति स्थलान्तरमाह-मैत्रादन्य इत्यादि । अयं भाव:-अन्यपदस्य भेद एव शक्यतावच्छेदको नतु भेदाश्रयत्वं गौरवात् । तत्पदात्तथान्वयबोधाननुभवाच ।