________________
१०४
वादार्थसंग्रहः
[४ भागः
मुख्यभाक्तसाधारणस्य फलादिलक्षणकर्मत्वस्य कृत्यादिलक्षणकर्तृत्वस्य चानभिधाने द्वितीयादयः । कृता विशिष्टाभिधाने विशेषणस्याप्यभिधानात्॥९॥ कृतिः पाकवती न वा, भेदो मैत्रप्रतियोगिको न वा, पृथक्त्वं घटावधिकं न वा इत्यादि संशयापत्तिर्दोषः ।
प्राचीनराख्यातेन कर्मादिगतसंख्यायाः कृता च कर्मादेरनभिधाने द्वितीयादय इति नियमद्वयं कल्प्यते अतस्तन्निरासाय कृदाख्यातसाधारणमेकमेव नियममाह-मुख्य-भाक्तसाधारणस्येति । एतच कर्मत्वस्य कर्तृत्वस्य विशे. पणं, मुख्यं कर्मत्वं फलवत्वं तत्प्रत्ययः पच्यते तण्डुलः पक्वस्तण्डुल इत्यादौ, भाक्तं कर्मत्वं विषयत्वादि तत्प्रत्ययः ज्ञातो घटः ज्ञायते घट इत्यादी, मुख्यं कर्तृत्वं कृतिमत्त्वं तत्प्रत्ययः पचति चैत्रः पक्ता चैत्र इत्यादौ, भाक्तं कर्तृत्वं आश्रयत्वादि तत्प्रत्ययश्च चैत्रो जानाति चैत्रो ज्ञाता इत्यादाविति भावः । फलादीत्यादिपदात् विषयत्वादिलक्षणभाक्तकर्मत्वपरिग्रहः कृत्यादीत्यादिपदात् आश्रयत्वादिलक्षणभाक्तकर्तृत्वपरिग्रहः । अनभिधान इति प्रधानक्रियोत्तरकृदाख्याताभ्यामनभिधान इत्यर्थः । तेन चैत्रेण भुक्त्वा गम्यते पक्त्वा चैत्रेण भुज्यते इत्यादौ कृता कृत्यभिधानात् तृतीया न स्यादिति दृषणमपास्तम् ।कृता कृत्यभिधानेऽपि प्रधान क्रियोत्तराख्यातेन कर्तृत्वानभिधानादिति भावः । द्वितीयादय इत्यादिपदात् तृतीयायाः कृयोगे षष्ठयाश्च परिग्रहः। ग्रामो गतश्चैत्रो गतवान् चैत्रो गन्ता इत्यादौ द्वितीयाधभावमुपपादयति-कृतेति । कर्मत्वविशिष्टस्या'भिधाने कर्मत्वादेरप्यभिधानादित्यर्थः ॥ ९ ॥
(राम) ननु यदि कर्ता कर्म च नाख्यातार्थः किंतु कृतिः कर्मत्वंच तदा कर्त-कर्मविहितकृतमपि तद्वत्कृति-कर्मताबोधकत्वमङ्गीक्रियतामविशेषादित्यतः कृतां कर्तृ-कर्मबोधकतां व्यवस्थापयितुं कारिकामाह-चैत्रो गन्तेत्यादि । चैत्रो गन्तेत्यादौ तृचा कर्ता, गतोग्रामइत्यादौ तत्प्रत्ययेन कर्म, मित्रा पक्रीत्यादौ तृचा कर्ता, गतं पुरमित्यत्र च क्तप्रत्ययेन कर्ता कर्म च प्रतीयते उभयत्र साधुत्वात् । तथाच तृजादीनामाख्यातवत् कर्तृबोधकत्वाभावे चैत्रोगन्तेत्यादावभेदान्वयबोधानुपपत्तिरिति भावः । नन्वत्र चैत्रः पचतीत्यादिवत् भेदान्वयबोध एव वक्तव्य इत्यत आह-भोक्तेत्यादि । तथाच भोक्तेत्यत्र तृचः कृतिमात्रबोधकत्वात् भोक्तपदार्थ विशेष्यीकृत्य तृप्यतीत्याख्यातार्थतृप्याश्रयत्वबोधो न स्यात्, भोजनानुकूलकृतौ भोक्तपदाथें तृप्याश्रयत्वस्यायोग्यत्वादिति भावः । एवं पक्कानि भुङ्क्ते इत्यादौ च बोध्यम् । अपसार्यतां, प्रपलाय्यताम् ।
सामानाधिकरण्यं, चैत्रादिपदार्थगन्त्रादिपदार्थयोरभेदान्वयबोधः । ननु