________________
१३ ग्रन्थः] आख्यातशक्तिवादः । पृथक् परोऽपरो वेत्यादाविव पदार्थतावच्छेदकेनैव कृत्यादिना धात्वर्थाऽन्वयः तथैव साकाङ्क्षत्वात्। अस्तु
वा कृत्यादिघटित एव कादिना सममन्वयः । पुत्रावपि नतृपदार्थः, तदेकदेशे प्रथमजन्यतायां षष्ठ्यर्थस्य निरूपितत्वस्यान्वयः। यद्वा शरीरजन्यशरीरमेव नप्तपदार्थः, तदेकदेशे प्रथमशरीरे षष्ठ्यर्थस्य जन्यत्वस्य अन्वयस्तथेहापीत्यर्थः । न च तत्र षष्ठयर्थस्य नप्तर्येवान्वय इति वाच्यम् । षष्ठयों हि जन्यत्वं, प्रयोज्यत्वं वा, नायः बाधात् , नान्त्यः चैत्रपुत्रे तत्प्रपौत्रे च तथा प्रत्ययप्रसङ्गादिति भावः ।
ननु प्रयोज्यत्वविशेष एवेह पष्ठ्यर्थस्तथाचानतिप्रसङ्गानप्तर्येव तदन्वयः, यद्वा शरीरमेवात्र नप्तपदार्थः, षष्ठ्यर्थस्य जन्यत्वस्य च स्वाश्रयशरीरजन्यत्वसंबन्धेन तत्रान्वयः, अथवा षष्ठयर्थस्य जन्यत्वस्याश्रयतासंबन्धेनैव शरीरेऽन्वयः, शरीरस्य च जन्यतासंबन्धेन पुनः शरीरेऽन्वयः, एकपदार्थस्यापि वारद्वयान्वयाभ्युपगमात् । नामार्थयोरपि भेदेनान्वयस्य जनकादिपदस्थलेऽपि खण्डशक्तिवादिना विशिष्टवाचकपदस्थलेऽभ्युपगमात् । केवलनमपदे च विशिष्टे शक्तिरतो नमुपदपुत्रपदयोन पर्यायता, तयोः पर्यायत्वस्येष्टत्वे च नम्र-पुत्रादिपदयोः शरीरमेव शक्यं, केवलनत-पुत्रादिपदे विशिष्टनिरूढलक्षणेत्यत आह-मैत्रादन्य इत्यादि। अन्यपदस्य भेदवानर्थः। तदेकदेशे भेदे पञ्चम्यर्थस्य प्रतियोगित्वस्य यथा अन्वयः इत्यर्थः । पञ्चम्यर्थे प्रतियोगित्वे च स्वरत्तिमैत्रत्वावच्छिन्नत्वसंबन्धेन मैत्रादेरन्वय इति नातिप्रसङ्ग इति भावः । घटादित्यादि । पृथक्त्वगुणविशिष्टं पृथक्त्वशब्दार्थः, परत्वगुणविशिष्टं परशब्दार्थः, अपरत्वगुणविशिष्टमपरशब्दार्थः । तेषामेकदेशे पृथक्त्व-परत्वापरत्वादी घटादिति पञ्चम्यर्थस्य अवधिमत्त्वस्य यथा अन्वय इत्यर्थः । उदाहरणवाहुल्यं भूयःसु तथा दर्शनाव्युत्पत्तिदाार्थम् । तथैवेति । तत्र यथा आकाङ्क्षा वर्तते तथैवात्रास्याकाङ्कासवादित्यर्थः । अन्यत्र तादृशोपस्थितेराकासात्वेऽपि तत्रैवात्रापीतरविशेषणत्वेनोपस्थितेराकानात्वादिति भावः। यद्वा तादात्म्यसंबन्धेन तत्प्रकारक-तद्विशेष्यकशाब्दबोधं प्रत्येव यथोक्ततद्विषयकतादृशोपस्थितिरेव हेतुः, भेदसंसर्गेणान्वयबोधे तु इतरविशेषणत्वेनोपस्थितिरप्याकाङ्केति भावः।
अभ्युपेत्याह-अस्तु वेति । कृत्यादिघटितएवेति स्वजनककृत्याश्रयत्व-स्वजन्यफलाश्रयत्वरूप एवेत्यर्थः । कर्तादिनेत्यादिना कर्मपरिग्रह इति । अन्वयः धात्वर्थस्य शाब्दबोधविषयीभूतपरम्परासंबन्धः । तथाच नैकदेशान्वयः मैत्रादन्यइत्यादावपि विशेष्य एव पञ्चम्यर्थादेः परंपरासंबन्धेनान्वय इति न तत्राप्येकदेशान्वय इति भावः। अत्रानुभवविरोधः तत्तद्वाक्यजन्यशाब्दबोधानन्तरं