________________
१०२ वादार्थसंग्रहः
[४ भागः कर्मणी कृवाच्ये । चैत्रस्य नप्ता मैत्रादन्यो घटात् त्वभागित्वेन यमिच्छति तत्संप्रदानमित्यर्थात् । शेषमस्मत्कृतसुपशक्तिवादे अनुसंधेयम् ।
अपादानत्वं च परकीयक्रियाजन्यविभागाश्रयत्वं, टक्षात्पर्ण पततीत्यत्र पतनाश्रयस्य पर्णादेरपादानत्ववारणाय जन्यान्तं विभागविशेषणं, तत्र पञ्चम्या विभागः समवेतत्वं चार्थः । तथाच वृक्षनिष्ठविभागजनकक्षभित्रसमवेतपतनाश्रयः पर्णमित्यन्वयधीः । लक्षणे धात्वर्थतानवच्छेदकत्वेनापि विभागो विशेष्यः, तेन वृक्षं त्यजति खगः इत्यादौ वृक्षस्य नापादानत्वं, 'ध्रुवमपायेऽपादानम्' इति पाणिनिसूत्रस्यापि अपाये विभागे, यत् ध्रुवं यदधिकरणं, तदपादानमित्यर्थः । वस्तुतस्तु अवधित्वमेवापादानत्वम् अवधित्वं च स्वरूपसंबन्धविशेषः । वृक्षात् विभजते इत्यादौ च अवधितानिरूपकत्वं पञ्चम्यर्थः । वृक्षनिष्ठावधितानिरूपकविभागाश्रयः पर्णमित्यन्वयधीः । अन्यत्र चापादानप्रयोगो गौणः । शेषमस्मत्कृतसुप्शक्तिवादेऽनुसन्धेयम् । अस्य कर्तृत्वापेक्षया गुरुत्वाभावेऽपि एतत्प्रकारेण कृत्प्रत्ययस्य स्वारसिकप्रयोगविरहादेव तस्य न कृत्प्रत्ययशक्यतावच्छेदकत्वम् ।
अधिकरणत्वं च प्रतियोगित्वानुयोगित्ववदाधारत्वापरनामकस्वरूपसंबन्धविशेषः । तस्य कर्तृत्वापेक्षया गुरुत्वाभावेऽपि तत्प्रकारेण स्वारसिकप्रयोगविरहान कृत्प्रत्ययशक्यतावच्छेदकत्वमित्यलमप्रकृतेन ।
ननु कादेः कृत्प्रत्ययार्थत्वे तदेकदेशे कृत्यादौ धात्वर्थान्वयो न स्यात् तत्प्रकारक-तद्विशेष्यकशाब्दबुद्धिं प्रति तनिरूपितविशेष्यतातिरिक्तविशेषणतान्यविषयत्वेन तदुपस्थितिरूपाया आकाङ्कायाः स्वरूपसत्कारणत्वात् । अन्यथा नित्योस्पलमित्यादौ उत्पलत्वादिजातेरपि अभेदसंबन्धन नित्यस्यान्वयापत्तेः। चित्रगुरि• त्यादौ चित्रपदं तात्पर्यग्राहकं गोपद एव चित्रगोस्वामिनि लक्षणा, न तु गोपदे गोस्वामिनि लक्षणा, तदेकदेशे गवि तादात्म्यसंबन्धेन चित्रपदार्थस्यान्वयः, केवलचित्रगुपदा पदार्थोपस्थितिमात्रं, न तु शाब्दबोधः पदार्थद्वयाभावात् । अत एव पदार्थः पदार्थेनान्वीयते, न तु पदार्थतावच्छेदकेनेति प्रामाणिकाः । न च पदार्थतावच्छेदकजात्यखण्डोपाधेरेवापरस्यान्वयो नाभ्युपेयते तदतिरिक्तेषु च पदार्थतावच्छेदकेऽप्यपरपदार्थान्वयः, अत एव चित्रगुरित्यादावपि चित्रपदं न तात्पर्यग्राहकम्, अपि तु गोपदं गोस्वामिपरं, तदेकदेशे गवि तादात्म्यसंबन्धेन चित्रगुपदार्थस्यान्वयः, केवलचित्रगुपदादपि शाब्दबोधादिति वाच्यम् । तथापि शुक्ल द्रव्यं नित्यं, चैत्रस्य नप्ता सुन्दरः इत्यादावप्येकदेशीभूते शुक्लरूप-पुत्रादौ नित्य-सुन्दरादेरभेदसंबन्धेनान्वयापत्तेर्दुरित्वादित्यत आह-चैत्रस्येति । यथा जन्यशरीरजन्यशरीरं नप्तपदार्थः, पुत्रस्य पुत्र-कन्ये इव कन्यायाः कन्या