________________
१०१
१३ ग्रन्थः ] आख्यातशक्तिवादः।
इत्यादौ सामानाधिकरण्याद्यन्यथानुपपत्त्या कर्तृसामानाधिकरण्यादीत्यादिपदास् भोक्ता तृप्यतीत्यादौ प्रथमायें आधेयतान्वयबोधस्य परिग्रहः । कर्त-कर्मणी कृद्वाच्ये इति। कर्ता ज्ञाता नष्ट इत्यादौ च तृजादेराश्रय-प्रतियोग्यादौ निरूढलक्षणा । न च समवायित्वलक्षणाश्रयत्वस्य कृतिमत्त्वादिरूपकर्तृत्वादिकमपेक्ष्य लघुतया तस्यैव शक्यतावच्छेदकत्वमुचितमिति वाच्यम् । तस्य लघुत्वेऽपि तृजादिपदजन्यताप्रकारकशाब्दबोधेः स्वारसिकत्वाभावस्य प्रामाणिकानुभवसिद्धतया शक्यतावच्छेदकत्वासंभवात् । न च कृतिमत्त्वरूपकर्तृत्वमपेक्ष्य फलवत्त्वरूपकर्मत्वस्य गुरुतया कथं तस्य शक्यतावच्छेदकत्वमिति वाच्यम् । पक्तत्यादौ कर्तृत्वप्रकारकप्रत्ययवत् पक्वमित्यादौ कर्मत्वप्रकारकप्रत्ययस्यापि स्वारसिकत्वस्य प्रामाणिकानुभवसिद्धतया गौरवस्याकिंचित्करत्वादिति भावः । कर्तरि शक्तिः कर्मणि च निरूढलक्षणेत्यपि कश्चित् । सानीयं चूर्ण दानीयो ब्राह्मणः पतनीयो वृक्षः आसितमिदमासनं इत्यादौ करण-संप्रदानापादानाधिकरणादिकं तु कृतो लक्षणमेव । न च कर्तृत्वमादाय विनिगमनाविरह इति वाच्यम् । कर्तृत्वस्य करणत्वादिकमपेक्ष्य लघुत्वात् करणादौ तत्तत्कृत्प्रत्ययस्य स्वारसिकप्रयोगविरहाच ।।
करणत्वं हि व्यापारवदसाधारणकारणत्वं, प्रकृतकारणत्वमानं वा । संप्रदानत्वं स्वत्वविशेषभागित्वेन इच्छाविषयत्वं, विशेषपदोपादानात् विक्रयादौ क्रेत्रादेर्न संप्रदानत्वं, श्राडादौ पित्रादेः स्वत्वविशेषभागितया नोद्देश्यत्वमपि तु प्रीतिभागितया अतो न तस्य संप्रदानत्वं, अत एव 'नमः-स्वस्ति ' इत्यादिसूत्रान्तरेणैव तत्र चतुर्थीविधानम् । ब्राह्मणाय गां ददातीत्यत्र इच्छा चतुर्थ्यर्थः । सा च समूहालम्बनव्यावृत्तविषयतासंबन्धेन ददात्यर्थतावच्छेदकस्वत्वविशेषे अन्वेति, स्वत्वविशेषानुकूलत्यागस्य ददात्यर्थत्वात् । त्यागो ज्ञानं इच्छा वा । इच्छायां च विलक्षणविषयतासंबन्धेन प्रकृत्यर्थान्वयः।
आधेयत्वं च द्वितीयार्थः, तस्यापि धात्वर्थतावच्छेदकस्वत्वविशेषेऽन्वयः । तथाच विप्रविषयकेच्छाप्रकारीभूत-गोटत्तिस्वत्वविशेषजनकत्यागानुकूलकृतिमानित्यन्वयबोधः । विषयत्वं प्रकारीभूतत्वं, जनकत्वं अनुकूलत्वं च संसर्गः । वृक्षायोदकमासिञ्चतीत्यादौ च वृक्षादिषु संप्रदानप्रयोगो गौण चतुर्थी प्राप्त्यर्थः । तत्र चतुर्थी-द्वितीययोराधेयत्वमर्थः। तत्र चतुर्थ्यर्थाधेयत्वं सिचधात्वर्थतावच्छेदकघटके संयोगे अन्वेति । संयोगावच्छिन्नद्रवद्रव्यक्रियानुकूलकतक्रियाया एव सिचधात्वर्थत्वात् । द्वितीयाधेियत्वं च साक्षाद्वात्वर्थतावच्छेदकक्रियायामन्वेति । तत्रैव द्वितीयार्थाधेयत्वस्य व्युत्पन्नत्वात् । अत एव वृक्षमुदकं सिञ्चतीति न प्रयोगः । न चैवं 'कर्मणा यमभिप्रेति स सम्प्रदानं' इति पाणिनिस्त्रविरोध इति वाच्यम् । तस्यापि कर्ता कर्मजन्यस्व