________________
१००
वादार्थसंग्रहः
[४ भागः चैत्रो गन्ता गतो ग्रामो मित्रा पक्री गतं पुरम् ।
भोक्ता तृप्यति पक्कानि भुते पक्तापसार्यताम् ॥ भावेन चैत्रो मैत्रश्च गच्छत इत्येतत्साधारणम् । अत्र देवदत्त इत्यधिकान्तीवेन व्यावृत्तिः । बहुवचनाख्यातस्य चैकवचनान्तत्रयसमभिव्याहृतेकवचनत्वाभावेनैकवचनद्विवचनयोः परस्परसमभिव्याहाराभावेन विशिष्टं यद्बहुवचनान्तत्वं तदभावेन । तेन चैत्रो मैत्रो देवदत्तश्च गच्छति चैत्रमैत्रौ देवदत्तश्च गच्छन्तीत्यस्यापि संग्रह इति गुरुचरणाः ।
वस्तुतस्तु चैत्रः पचतीत्यादौ शब्दसाधुत्वनिश्चयादेवान्वयबोधः । तदनिश्चयदशायां च प्रथमाया एकत्वशक्तिनिश्चयाभावे भवत्येव बोधः । तन्निश्चये च एकैकत्वधर्मितावच्छेदककालीनानेकसंख्याप्रत्ययस्याहार्यप्रत्यक्षरूपतया तत्सामग्रीच्छाविरहादेव न बोधः । अथैकत्वबहुत्वाश्रयबहिर्भावेन चैत्रः पचन्तीति वाक्याचैत्रत्वविशिष्टे पाकानुकूलकृतिबहुत्वैकत्वादिप्रत्ययः स्यादिति चेन्न । समभिव्याहृतपदानां संभूयान्वयबोधकत्वस्यैव व्युत्पन्नत्वेन प्रथमादिबहिर्भावेन तदसंभवात् , चैत्रो दण्डी द्रव्यमिति वाक्याङ्गत्वेऽपि चैत्रो द्रव्यमिति बोधानुदयादिति ॥ ८ ॥
(मथु०) नन्वेवं कर्तृ-कर्मणी कृतोऽपि वाच्ये न स्यातां तत्रापि लाघवेन कृति-फलयोरेव शक्तरुचितत्वादित्यत आह-चैत्रो गन्तेति । कर्तरि कर्मणि चोभयत्रैव शक्तिव्यवस्थापनाय कर्तृ-कर्मभेदेनोदाहरणद्वयम् । ननु एकधर्मिबोधकत्वरूपं सामानाधिकरण्यमसिद्ध तृजादीनां प्रत्ययतया भेदेनाप्यन्वयोपपत्तेरित्यतः समानलिङ्गकत्वरूपं सामानाधिकरण्यं प्रमाणयितुं कर्तृ-कर्मशक्तिसाधकमुदाहरणद्वयमाह-मित्रेति । न च स्वसमानलिङ्गकत्वं कथं धर्मिसाधकमिति वाच्यम् । भेदान्वयवोधे समानलिङ्गकत्वस्यातन्त्रत्वात् । न चाभेदेनान्वयेऽपि समानवचनत्ववत् समानलिङ्गकत्वमपि न तन्त्रं 'वेदाः प्रमाणं ' इत्यादौ — जात्याकृतिव्यक्तयस्तु पदार्थः' इति न्यायसूत्रे च उभयोरेव व्यभिचारादिति वाच्यम् । अजहल्लिङ्गस्थले अभेदान्वयबोधे तदुभयोरतन्त्रत्वेऽपि तदतिरिक्तस्थले तदुभयोरेव तन्त्रत्वादिति भावः । ननु लाघवेन कृतः कृति-फलयोः शक्तौ व्युत्पत्तिवैचित्र्यादेव तत्र भेदान्वयेऽपि समानलिङ्गकत्वस्योपयोगो भविष्यतीत्यत आह-भोक्तेति । कृतिफलयोः कृद्वाच्यत्वे अत्रान्वयबोधो न स्यात् कृतौ तृप्त्याश्रयत्वस्य भोजने पाकफलविकित्तिकर्मकत्वस्य च बाधादिति भावः । एतदपि कर्तृ-कर्मशक्तिसाधारण्यायोदाहरणद्वयम् । कृतेः कृद्वाच्यत्वे कृदथें काख्यातार्थस्याश्रयत्वस्यान्वयानुपपत्तिमभिधाय तत्र कर्माख्यातार्थस्य फलस्यान्वयानु. पपत्तिं दर्शयति-पक्तेति ।