________________
१३ ग्रन्थः]
आख्यातशक्तिवादः।
न वेति । एकदा कर्तृकर्मणोरिव कृतिफलयोरप्यबोधादिति भावः । नन्वेवं कर्माख्यातस्थले भावनान्वय्यभावात्संख्यान्वयो न स्यात् । न च भावनाफलान्यतरविशेष्यत्वं वर्तमानत्वादीष्टसाधनत्वादीतराख्यातार्थविशेष्यत्वं वातनियामकं, कादाचित्कस्य तद्विशेष्यत्वस्यासार्वत्रिकत्वान्नियतप्राक्कालीनस्य तत्त्वात् । एतेन मुख्यविशेष्ये संख्यान्वय इत्यपास्तमित्यत आह—तिकुपस्थाप्याया इति । अत्र कर्मत्वाद्यनवरुद्धतरविशेषणत्वेनानुपस्थितत्वादिरूपं शाब्दबोधसाधारणं, नीलो घटो द्रव्यमित्यादितोऽपि नीलो द्रव्यमित्याद्यबोधादतस्तादृशं त्यक्त्वाह-- प्रथमान्तेति । नन्वाकाशो मैत्रश्च गच्छत इत्यादितो मैत्रमात्रे भावनाया आकाशमैत्रयोर्द्वित्वस्यान्वये तात्पर्य गृह्णतोऽपि तथाबोधाभावेन भावनान्वयबोधसामग्र्या एव संख्यान्वयबोधे कारणत्वमुचितम् । न च संख्यान्वयसामग्र्येव भावनान्वयबोधे हेतुरस्तु द्वौ गच्छत इत्यादौ व्यभिचारात् । न च तथाऽपि भावनायाः कृतिफलादिरूपतयाननुगमाद्यभिचारः। कृतिसंख्योभयप्रकारकशाब्दबोधे कृतिप्रकारकबोधसामग्र्याः फलसंख्योभयप्रकारके फलप्रकारकबोधसामग्र्या हेतुताङ्गीकारादिति चेन्न । एवं सति संख्यान्वयबोधसामग्र्या अपि विनिगमनाविरहेण तथात्वप्रसङ्गात् । द्वौ गच्छत इत्यादावुभयप्रकारकबोधाभावेन व्यभिचाराभावान्न स्यात् । उक्तोभयप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेरेव कारणत्वमुचितम् । ___ नन्वेवं द्वौ गच्छत इत्यादी केवलकृत्यादिप्रकारकबोधे कार्यकारणभावान्तरकल्पनमावश्यकम् । वैयाकरणस्य च तत्रापि द्वित्वविशिष्टे द्वित्वविशिष्टगमनानुकुलकर्तृत्वादिविशिष्टाभेदो भासत एवेति न कार्यकारणभावान्तरकल्पनम् । गच्छन्तौ गच्छत इत्यत्र च नोभयोरेवान्वयबोध इति वैयाकरणमत एव मिलितानुभावकतानिर्वाह इति चेन्न । गच्छतिपचतीत्यतो गमनकर्ता पाककर्तेत्यन्वयबोधवारणाय प्रथमान्तपदजन्योपस्थितेस्तेनापि कारणत्वस्यापि वाच्यत्वात्संख्यान्वयबोधे आख्यातजन्यकर्तृकर्मोपस्थितेः पृथक्कारणत्वे गौरवात् । आनुपूर्वीभेदेन कार्यकारणभेदात् द्वौ गच्छत इत्यानुपूर्वीज्ञानकार्यतावच्छेदकस्य तन्मतेऽतिगुरुत्वाच । किंच कर्तृकृतिशक्तिवादिनोईयोरेवोभयविधः शाब्दबोधः सिद्ध एवेति तदनुरुद्धकार्यकारणभावादिकल्पनं द्वयोरेव समानं, परंतु कर्तरि वा शक्तिभ्रमः कृतौ वेत्यत्र विचारे कर्तर्येव भ्रमत्वं कल्प्यते । तत्र शक्तिकल्पने गौरवादिति दिक् । अत्र प्रथमान्तेत्यस्य समानवचनप्रथमान्तेत्यर्थः । तेन चैत्रः पचतीत्यादिवाक्यान्नान्वयबोधः । साम्यं चैकवचनस्यैकवचनत्वेन । द्विवचनाख्यातस्यैकवचनान्तद्वयसमभिव्याहृतैकवचनत्वाभावविशिष्टं यहिवचनान्तत्वं तद