________________
वादार्थसंग्रहः
[४ भागः कर्तृगतसंख्यानभिधाने तृतीयाया एव साधुत्वादिति भावः । फलकर्मणोरपीति । अपिना क्रियाफलयोः समुच्चयः । तथा वाक्यार्थः । एतदपि फलमपि तथा वाक्यार्थः । तथा च मैत्रनिष्ठपाकभावनावांस्तण्डुल इति बोधः । भावनायाः कर्मणि स्वजन्यफलवत्त्वं स्वविषयक्रियाजन्यफलवत्त्वं वा संबन्ध इति भावः । प्रकारीभूयेति । एतावतैव प्राचां प्रथमप्रकारोऽप्यपहृत इति द्वितीयप्रकारदूषणेनैव तस्य दूषितत्वात्स्वातन्त्र्येण(न) तदुपन्यास इति बोध्यम् । ननु धातोः फलावच्छिन्नक्रियावाचित्वात्तत एव फललाभोऽस्त्वत आह–फलेति । फलविशिष्टेत्यर्थः । वैशिष्टयं च जनकतया । तथा च क्रियाविशेषणतयोपस्थितस्य फलस्य क्रियाविशेष्यत्वेन नान्वयो निराकाङ्क्षत्वादिति भावः । ननु फलविशेषणतया शक्यत्वेऽपि विशेष्यतया स्मरणं स्यादत आह—विशेषणेति । यद्रूपविशिष्टे वृत्तिग्रहस्तद्रूपविशिष्टस्यैवोपस्थानादिति भावः । फलमिति । न च फले लक्षणैवास्तु। फलस्य संयोगविभागादेः कृतितुल्यत्वेन तदयोगादिति भावः।
नन्वस्तु प्राचामपि फलमात्मनेपदार्थः । नतु तन्मात्रं भावनाया अपि तद. र्थत्वादित्यत आह—इत्थं चेति । फलस्य आत्मनेपदार्थत्वे चेत्यर्थः । अपदार्थत्वे तदन्वयविचार एवानुचित इति भावः । न लभ्येत इति । तथा च कर्मत्वप्रकारिका प्रतीतिर्न स्यादिति भावः । नन्वाख्यातार्थफलभावनयोरपि विशेषणतया क्रियान्वयोऽस्तु क्रियाविशिष्टभावनायाश्च फले । तथा च क्रियाजन्यक्रियाविषयकभावनाजन्यफलशाली तण्डुल इत्यादिबोध: स्यादिति चेन्न । वाक्यभेदापत्तेरनुभवबाधादाख्यातजन्यभावनादिबोधनियामकसमभिव्याहारस्याभावाच्च । नन्वात्मनेपदस्थले आख्यातार्थभावनैव धात्वर्थविशेषणतया भासताम्। तथा च भावनाविषयक्रियाजन्यफलशाली तण्डुल इति बोधोऽस्त्वत आह--- भावनेति । अन्यत्र पचतीत्यादौ । कृत्यभिधायकेत्यनेनानन्यलभ्यत्वमुक्तम् । क्लप्तशक्तरित्यनेन शक्त्यन्तरकल्पनातो व्युत्पत्त्यन्तरमेव कृप्तशक्तिकस्याख्यातस्य युज्यत इति निराकृतम् । सुपस्तृतीयायाः । ननु कृते: क्रियाविशेष्यत्वेनैवान्वय इति सामान्यव्युत्पत्तेः कथमेवमित्यत्राह-सुबर्थेति । व्युत्पन्नत्वादिति । चैत्रेण पक्वमित्यादौ तृतीयाजन्ये कृतिप्रकारकपाकविशेष्यकबोधे धातुजन्यपाकोपस्थितेः कारणत्वकल्पनान्न व्युत्पत्तिभङ्ग इति भावः । कर्तृकर्मवदिति । कर्तृकर्मणोरिवेत्यर्थः । पूर्व संसर्गभेदेन नियम उक्तोऽधुना तु पदार्थभेदेनैवेति विशेषः । अतिप्रसङ्गः चैत्रः पच्यत इत्यादौ कृतेस्तण्डुलः पचत इत्यादौ 'फलस्य प्रत्ययप्रसङ्गः। शबादिसहकारेण कर्तुरिव कृतेर्यकः सहकारेण कर्मण इव फलस्यैव प्रतीतेरिति भावः ।