________________
१३ ग्रन्थः ]
आख्यातशक्तिवादः ।
शक्ततावच्छेदकमेवं कर्माख्यातत्वं कर्मत्वशक्ततावच्छेदकमित्युपदर्शितस्थले कृ'कर्मत्वयोर्बोधाभावान्नोपदर्शितप्रयोगापत्तिरिति भावः ।
कृतिकर्मत्वयोः शक्ततावच्छेद के कर्त्राख्यातत्वकर्माख्यातत्वे उच्येते नाख्यातत्वमित्यत्रावष्टम्भकान्तरमाहइन वेति । तथा सति पक्ष्यते तण्डुलो मैत्र इत्यादिप्रयोगापत्तिर्दुर्वारेति भावः ।
केचित्तु आख्यातत्वमेव कृतिशक्ततावच्छेदकं लाघवात् । न चैवमुक्तप्रयोगायत्तिः कृतिविशेष्यकाख्यातपदनिरूपितशक्तिज्ञानेन कृतिशाब्दबोधे जननीये चैत्रस्तण्डुलं पचतीत्याद्यानुपूर्वीज्ञानस्य सहकारित्वकल्पनादेवं कर्मत्वविशेष्यकाख्याउपदनिरूपितशक्तिज्ञानेन कर्मत्वबोधे जननीये चैत्रेण पच्यते तण्डुल इत्याद्यानुपूज्ञानस्य सहकारित्वकल्पनाच्चोक्तानुपपत्तेरभावादिति । एवमन्यत्राप्यापत्तिशकापक्कोऽप्यानुपूर्वीज्ञानस्य सहकारित्वरूपसलिलधाराधोरणीभिरपनीय इति प्राहुः ।
ननु कर्माख्यातस्य चेन्न कृत्यपरनामकभावनार्थकत्वं तर्हि कुतो भावनात्वयिनि संख्यान्वयनियम:, चैत्रेण पच्यते तण्डुल इत्यादौ भावनानन्वयिनि तण्डुले संख्यान्वयेन व्यभिचारादित्यत आह- तिङपस्थापिताया इति । तथा च संख्यायाः प्रथमान्तपदोपस्थाप्य एवान्वयनियमो न तु भावनान्वयिनि तस्यान्वयनियम इति भावः । नन्वाख्यातपदोपस्थाप्यान्ययिन्येव संख्यान्वयनियमः किं नाभ्युपेतः, तथा सत्यपि कर्माख्यातस्थलेऽनुपपत्त्यभाव इति चेन्न; तथा नियमाङ्गीकारे नश्यतीत्यादौ वर्तमानत्वादिविशिष्टेऽपि संख्यान्वयप्रसङ्गादिति ॥ ८ ॥
1
भावनाया
( जय०) प्राचीनोक्तमर्थविवेचनेन प्रकारद्वयमपि दूषयन् सिद्धान्तितं नवीनमतमाह नव्यास्त्विति । चैत्रेण प्रच्यते तण्डुल इत्यत्रेति शेषः । भायना यत्नः आदिपदाद्वयापारादेर्यथायथं परिग्रहः । आधेयत्वमिति । रथेन गतमित्यादावाधेयत्वस्य तृतीयार्थत्वादिति भावः । लाघवात्पचतीत्यादाविव आधाराधेयभावस्य संसर्गतया भानस्यानुभवसिद्धत्वाच्चाह -- संख्यामात्रं वेति । वाक्यार्थः संसर्गमर्यादालभ्यः । तृतीयाप्रकृत्यर्थस्य चैत्रादेः साक्षादेवाख्यातार्थभावनायां भेदेन प्रकारत्वसंभवान्नामार्थधात्वर्थयोरेव भेदेनान्वयस्या व्युत्पन्नत्वादिति भावः । न चाख्यातार्थेऽपि प्रातिपदिकार्थस्य विशेषणतयाऽन्वयो न व्युत्पन्न: । अन्यथा चैत्रः पच्यते तण्डुल इत्यादावपि तादृशबोधापत्तेरिति वाच्यम् । तादृशान्वयबोधे तृतीयायाः सहकारित्वात् । अन्यथा चैत्रे पच्यतेतण्डुल इत्यादित: सप्तम्यर्थाधेयत्वोपस्थितिसत्त्वात्तथा शाब्दबोधस्य तवापि दुर्वारत्वापत्तेः । तृतीयो पस्थाप्याधेयत्वोपस्थितिस्तन्त्रमिति चेत् तृतीयोपस्थितिरेव लाघवात्तन्त्रमस्तु । न च संख्यातिरिक्तार्थाभावे प्रथमा स्यादिति वाच्यं