________________
वादार्थसंग्रहः
[ ४ भाग:
1
भवविलोपपत्ति: । एवं तादृशवाक्येन तथाविधबोधजनने आधेयत्वे तृतीयापदनिरूपितशक्तिज्ञानस्य सहकारित्वकल्पने गौरवं चेत्यत आह-संख्यामात्रं वेति । मात्रपदेन आधेयत्वव्यवच्छेदः । संबन्ध: चैत्रभावनयोः संबन्ध इत्यर्थः । वाक्यार्थ इति । तथाविधवाक्यानुपूर्वीज्ञानबलाच्छाब्दबोधे भासत इत्यर्थः । तथाच तथाविधश्चेदनुभवः तदा संख्यामात्रं तृतीयार्थः, आधेयत्वं तु संबन्धमर्यादया भासत इति भावः । तथेति । वाक्यार्थ इत्यर्थः । तदपीति फलमपीत्यर्थः । तथेति । वाक्यार्थसंबन्ध इत्यर्थः । भासमानत्वादिति । तथा च नामार्थधात्वर्थयोः भेदान्वयबोधानभ्युपगमेन कर्माख्यातस्थले फलप्रकारकबोधानुभवापलापेन च तत्र फलस्य संबन्धविधया मानासंभवादिति भावः । क्रियाजन्यफलाभवादिति । जन्यतासंबन्धेन क्रियाविशिष्टं यत्फलं तस्य धातो लाभादित्यर्थः । विशेषणविशेष्यभावेत्यादि । फलविशेष्यकक्रियाविशेषणकबोधस्य धातुतोऽशक्यत्वादित्यर्थः । एतावता प्राचीनमतं दूषयित्वा नवीनमतमुपसंहरति तस्मादिति ।
९६
#des
इत्थं चेति । फलस्यात्मनेपदार्थत्वे चेत्यर्थः । न लभ्येतेति । तथा च कर्माख्यातस्थले फलविशेष्यकजन्यतासंसर्गकक्रियाविशेषणक बोधोऽनुभवसिद्धः । स चानुपपन्न इति भावः । फले अन्वये । जन्यतासंबन्धेन फले अन्वये । अन्यत्र क्लप्त इति, कर्नाख्यातस्थले क्लृप्त इत्यर्थः । तथा च तत्राख्यातार्थं - न्तरे वर्तमानत्वादौ धात्वर्थस्यान्वयापत्तिवारणाय धात्वर्थनिष्ठप्रकारतानिरूपितवशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति आख्यातपदजन्यकृत्युपस्थितेः विशेष्यतासंबन्धेन हेतुत्वस्य कल्पनान्न धात्वर्थे विशेषणत्वेन तिङर्थकृतेरन्वय इति भावः । कृत्यनभिधायकेति । कृत्यनभिधायको यो भावकर्मविहितकृत्प्रत्ययः तद्योगेन भावनायां क्रूसशक्तेः तृतीयारूपसुप इत्यर्थः । व्युत्पन्नत्वादिति । चैत्रेण गतमित्यादिभावादिविहित कृत्प्रत्ययस्थले क्लसत्वादित्यर्थः । तथाविधकृत्प्रत्ययस्थले सुबर्थकृतिनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दं प्रति धातुपदजन्योपस्थितेर्विशेष्यतासंबन्धेन हेतुत्वस्य क्लृप्तत्वात् सुबर्थकृतिप्रकारकक्रियाविशेष्य
1
बोधे बाधकाभावादिति भावः । ननु आख्यातस्य कृतिकर्मत्वाभिधायकत्वे चैत्रेण पचति तण्डुलः, तण्डुलं पच्यते चैत्र इत्यादिप्रयोगापत्तिरित्यत आहकर्तृकर्मवदिति । वैयाकरणमते यथा कर्त्राख्यातत्वं कर्तृशक्ततावच्छेदकं यथा `च कर्माख्यातत्वं कर्मशक्ततावच्छेदकं तथा नैयायिकमतेऽपि कर्त्राख्यातत्वं कृति
१ लाभादिति पाठः ।
m