________________
१३ मन्थः] आख्यातशक्तिवादः।
९५ नित्यमित्यनुशासनेन षष्ठयां शक्तेः सिद्धत्वात् । तस्मादेव कर्तरि वेत्यादितृतीयाविधायकसूत्रादपि तृतीयायामपि कृतिशक्तिसिद्धिः। अन्यथा तत्सूत्रस्य तृतीयाबायकत्वानुपपत्तिः समानविषयत्वाभावादिति भावः । इदं तु बोध्यं-सुप्त्वावच्छेदेन कृतिशक्तौ क्लुप्तायां प्रथमासुप्यपि कृतिशक्तिरायाता, तथाच चैत्रेण पच्यते तण्डुल इत्यादौ प्रथमा-तृतीयाभ्यामेव स्मृतायाः कृतेः पाकेऽन्वयः स्वीकियते संभेदे नान्यतरवैयर्थ्यमिति न्यायात् । अत एव सुवर्थकृतेश्चेत्युवाच अन्धकारः; अन्यथा तृतीयार्थकृतेश्चेत्येव उक्तवान् स्यात् इत्यस्मदीयो बुद्धिप्रकाशः सुधीभिः श्लाघनीयः । ननु चैत्रेण गुणः पच्यते इति प्रयोगापत्तिः, चैवत्तिकृतिजन्यपाकजन्यविक्लित्यादिरूपतण्डुलावयवदृत्तिविजातीयसंयोगात्मकफलस्य तादात्म्येन स्वस्मिन् गुणे सत्वादित्यत आह-कर्तृ-कर्मवञ्चति । तथाच भवन्मते यथा पच्यते इत्यादौ आश्रयतासम्बन्धेन कर्मत्वविशिष्टस्यैव तादात्म्येन तण्डुलादावन्वय इति नोक्तदोषः, तथा अस्मन्मतेऽपि फलस्याश्रयतासम्बन्धेनैव तत्रान्वय इति नोकदोष इत्यर्थः । कर्तृ-कृत्योरभिधानं तु दृष्टान्तार्थमनुवादमात्र भावनाया कर्तर्याश्रयत्वेनेत्यादिपूर्वग्रन्थे कृत्यन्वये नियमस्योक्तत्वात् तेन न पौनरुक्त्य मिति भावः । नातिप्रसङ्गः न चैत्रेण गुणः पच्यते इत्यादिप्रयोगप्रसङ्गः । __ ननु एकस्मादेव पक्ष्यत इति वाक्यादेकदा चैत्रे पाककर्तृत्वस्य तण्डुले पाककर्मत्वस्य च बोधे तात्पर्यदशायां चैत्रस्तण्डुलः पक्ष्यते इति प्रयोगापत्तिरित्यत
आह-न वेति । तथाच तदाख्यातजन्यकर्तृत्वशाद प्रति तदाख्यातजन्यकर्मत्वशाब्दसामग्री, एवं तदाख्यातजन्यकर्मत्वशाब्दं प्रति तदाख्यातजन्यकर्तृत्वशाब्दसामग्री प्रतिबन्धिकेत्येकदोभयशाब्दसामग्रीस्थले परस्परप्रतिबन्धेन न कस्यापि शाब्दबोध इति न तथा प्रयोगापत्तिरिति भावः । इदमपि प्रागुक्तस्य स्मरणाय । तेन न पौनरुक्त्यम् । ननु यदि चैत्रेण पच्यत इत्यादौ आख्यातार्थभावनाया नान्वयस्तदा भावनाविशेष्यविरहात् कुत्र कर्माख्यातार्थसंख्यान्वयो भविष्यतीत्यत आह-तिङपस्थापिताया इति । यथा पचतीत्यादौ प्रथमान्तोपस्थाप्यत्वं भावनान्वये नियामकं तथा चैत्रेण तण्डुलः पच्यत इत्यादावप्याख्यातजन्यसंख्याप्रकारकशाब्दबोथे प्रथमान्तोपस्थाप्यत्वमेव नियामकं वक्तव्यमित्यर्थः । व्युत्पन्न इति । चैत्रः पचतीत्यादौ क्लुप्त इत्यर्थः। तथा चाख्यातजन्यसंख्याप्रकारकशाब्दत्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितित्वेन कर्तृ-कर्माख्यातजन्योपस्थितिसाधारणी हेतुतेति भावः ॥ ८ ॥
(रघु०) प्राचीनमतं दूषयन् नवीनमतं दर्शयति-नव्यास्त्विति । ननु कर्माख्यातस्थले आधेयत्वस्य तृतीयार्थत्वे कळख्यातस्थले यत्र भावनाविशेषणत्वेनान्वेति कर्माख्यातस्थले स एव भावनायां विशेषणत्वेनान्वेति इत्यनु
१. विशेष्यत्वेन ' इति पाठः।