________________
९४
वादार्थसंग्रहः
[४ भागः
रन्वय इति प्राचां मतं दूषयति-इत्थश्चेति । कर्माख्यातस्थले फलस्यात्मनेपदार्थत्वे इत्यर्थः । फलस्यात्मनेपदार्थत्वाभावे फले भावनान्वय एव नास्ति क तद्विचारवार्तापीतीत्थं चेत्यस्य नानुपपत्तिरिति भावः । आख्यातेति । चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रत्तिपाकभावनाप्रयोज्यफलशाली तण्डुल इत्यन्वय. स्वीकारे इत्यर्थः । न लभ्येतेति । तथाचानुभवविरोध इति भावः । ननु चैत्रवृत्तिभावनाविषयपाकजन्यफलशाली तण्डुल इत्याकारक आख्यातार्थभावनाविषयकः शाब्दबोधो वाच्य इत्यत आह-भावनेति । आख्यातार्थभावनेत्यर्थः । अन्वये अन्वयस्वीकारे । तिङपस्थापितेति काख्याते चैत्रस्तण्डुलं पचतीत्यादौ चैत्रस्तण्डुलकर्मकपाकानुकूलकृतिमानित्यन्वयबोधस्तत्र च धात्वर्थविशेषणकस्वार्थकृतिविशेष्यकान्वयबोधजनकत्वव्युत्पत्तिः क्लृप्ता सा च भग्ना स्यात् , यदि चैत्रेण पच्यते तण्डुल इत्यादौ आख्यातार्थकृतिविशेषणको धात्वर्थपाकविशेष्यकश्चैत्रवृत्तिभावनाविषयपाकजन्यफलशाली तण्डुल इत्याकारकान्वयबोधः स्वीक्रियत इत्यर्थः । ननु पचधातुसमभिव्याहृतक ख्यातजन्यकृत्युपस्थितेः कृतिविशेष्यक-पाकप्रकारकशाब्दत्वं पचधातुसमभिव्याहृतकर्माख्यातजन्यकृत्युपस्थितेश्च पाकविशेष्यक-कृतिप्रकारकशाब्दत्वं कार्यतावच्छेदकमिति विशेषत एव व्युत्पत्ती अङ्गीकार्ये तयोश्च न भङ्गः । सामान्यतश्च पचधातुसमभिव्याहृताख्यातजन्यकृत्युपस्थितित्वावच्छिन्नस्य न कृतिविशेष्यक-पाकप्रकारकशाब्दत्वं कार्यतावच्छेदकमुच्यते येन तद्विरोधः स्यादिति चेत् । न । उक्तकार्य-कारणभावद्वयकल्पनमपेक्ष्य लाघवेन सामान्यतः तादृशस्यैकस्यैव कार्य-कारणभावस्य कल्पनाया युक्तत्वात् । तथाच तादृशसामान्यकार्य-कारणभावबलेन चैत्रेण पच्यते तण्डुल इत्यादावपि कृतिविशेष्यक-पाकप्रकारक एकबोधः स्यादित्येव प्रकृते क्लप्तव्युत्पत्तिभङ्गप्रसङ्गपदार्थः । अयं च बोधः फलस्य क्रियाजन्यत्वालाभप्रसङ्गेन दृषित एवेति भावः ।। ___ नन्वेवं कर्माख्यातस्थले कृतिलाभ एव न स्यादिति तल्लाभाय स्वमतं दर्शयति-तस्मादिति । कर्मप्रत्ययस्थले आख्यातोपस्थाप्यभावनायामन्वयासंभवादित्यर्थः । कृत्यनभिधायकेति । चैत्रस्य पाक इत्यादिभावकृत्स्थले षष्ठ्यर्थकृतेर्जन्यतासंबन्धेन पाके अन्वयः, चैत्रेण पक्वस्तण्डुल इत्यादिकर्मकृत्स्थले तृतीयार्थकृतेर्जन्यतासंबन्धेन धात्वर्थपाकेऽन्वय इत्यर्थः । क्लप्तशक्तरिति । क्लूप्ता शक्तिर्यस्या इति बहुव्रीहिः । तथाच लाघवेन षष्ठी-तृतीयासाधारणसुप्त्वावच्छेदेन कृतिशक्तिकल्पने कर्माख्यातस्थलेऽपि सुप एव तृतीयातः कृतिलाभो भवि. ष्यतीति भावः । सुपस्थले च पचधातुसमभिव्याहृतसुप्जन्यकृत्युपस्थितः पाकविशेष्यक-कृतिप्रकारकशाब्दत्वमेव सामान्यतः कार्यतावच्छेदकमिति न तु गौरवं न वा तत्र तद्भङ्ग इत्यभिप्रायेणाह-सुबर्थकृतेश्चेति । ननु तथापि भावकर्मकृतेरेव कृतिशक्तिरस्तु विनिगमकाभावादिति चेत् । न । कर्तृ-कर्मणोः कृति