________________
१३ ग्रन्थः]
आख्यातशक्तिवादः।
तथाच यथा काख्यातार्थभावनान्वये कर्मताद्यनवरुद्धप्रथमान्तपदोपस्थाप्यत्वं नियामकं तथा तिङर्थसंख्यान्वयेऽपीति भावः । एतच्च प्राचीनग्रन्थानुरोधेनोतम् । तत्र आख्यातार्थभावनाविशेष्ये तदर्थसंख्यान्वय इति नियमे यत्नत्वव्यापारत्वविशिष्टस्यैव भावनापदार्थतया विशिष्य व्याख्यातत्वात् । वस्तुतस्तु भावनापदं व्यापारत्वविशिष्टस्येव वर्तमानत्वत्वादीष्टसाधनत्वत्वादीतराख्यातप्रतिपाद्यतावच्छेदकरूपधर्मवत्त्वरूपभावनात्वविशिष्टत्वरूपेण फलत्वविशिष्टस्याप्युपलक्षकं, तथाच भावनात्वविशिष्टविशेष्ये संख्यान्वय इत्येव नियमो ज्यायान् इति बोध्यम् ॥ ८॥
( राम० ) फलस्यात्मनेपदार्थत्वं व्यवस्थापयितुं नव्यमतं दर्शयतिनव्यास्त्विति । तत्र फलस्य पदान्तरालभ्यत्वं दर्शयितुं भावनादेरित्यादि कस्यार्थ इत्यन्तं, चैत्रनिष्ठभावनाविषयेत्यादौ भावनादेरित्यर्थः । आदिपदेन वर्त. मानत्वपरिग्रहः । आधेयत्वमात्रमिति, मात्रपदेन कृतिव्यवच्छेदः । ननु चैत्रेण पच्यते तण्डुल इत्यादौ आधेयत्वस्य तृतीयार्थत्वे चैत्रः पचति तण्डुलमित्यादौ यावन्तोऽर्थाः शाब्दबोधविषयास्तावदधिकपदार्थस्य शाब्दबोधविषयत्वापत्तिस्तथाचानुभवविरोधः । कर्तृप्रत्ययस्थले यावन्तः पदार्था भासन्ते तावत्समसंख्या एव पदार्थाः कर्मप्रत्ययस्थलेऽपि भासन्ते इत्यस्य सर्वसिद्धत्वादित्यत आहसंख्यामात्रं वेति । मात्रपदेनाधेयत्वव्यवच्छेदः । ननु तृतीयाया आधेयत्वार्थकत्वाभावे कृतौ चैत्रनिष्ठत्वस्य कुतो लाभ इत्यत आह-सम्बन्धस्त्विति । चैत्रकृत्योराधेयत्वरूपः संबन्धस्त्वित्यर्थः। पचतीत्यादाविति, यथा चैत्रे पाकानुकूलकृतेराश्रयत्वं संसर्गस्तथा चैत्रेण पच्यत इत्यादौ चैत्र-कृत्योरप्याधेयतासंसर्ग इति तस्य पदार्थत्वविरहेऽपि न क्षतिरिति भावः । फलेति पाकजन्यफलविक्लित्यादि-तण्डुलादिरूपकर्मणोराश्रयत्वरूपः संबन्धोऽपि वाक्यार्थ इत्यर्थः । वाक्यार्थत्वं च तत्तत्पदद्वयाकाङ्क्षादिलभ्यत्वम् । तदपि फलमपि, तथा संसर्गरूपो वाक्यार्थः । प्रकारीति। तथाच फलप्रकारकबोधानुपपत्तिरिति भावः ।
ननु फलावच्छिन्नव्यापारबोधकपचधातुत एव फललाभ इत्यत आह-फला. वच्छिन्नेति । विशेषणेति, यादृशविशिष्टो यत्पदार्थः तत्तत्पदात् तादृशविशिटार्थ एवावगम्यते अन्यथातिप्रसङ्गात् । तथाच फलावच्छिन्नव्यापारबोधकधातुना फलावच्छिन्नव्यापारबोधनेऽपि फले क्रियाजन्यत्वालाभ एव स्यादिति भावः । नन्वेवं फलाभाव एव न स्यादित्याशङ्कायामाह-तस्मादिति । चैत्रेण पच्यते तण्डुल इत्यादौ फलस्य पदान्तरालभ्यत्वादित्यर्थः । आत्मनेपदार्थ इति । आत्मनेपदत्वावच्छेदेन फले शक्तिरित्यर्थः । आख्यातत्वं च न फलशक्ततावच्छेदकं परस्मैपदस्य कुत्रापि फलाबोधकत्वेन तस्यातिप्रसक्तत्वादन्यथा शद्धत्वादेरेव फलशक्ततावच्छेदकत्वापत्तेरिति भावः।
कर्मप्रत्ययस्थले तृतीयार्थकृतेरन्वय इति स्वमतं प्रमाणयितुमाख्यातार्थकृते.