________________
वादार्थसंग्रहः
[ ४ भागः
याजन्यत्वं न लभ्येत भावनाविषयक्रियायाः फले. ऽन्वये तिकुपस्थापितभावनायाः क्रियाविशेष्यत्वेना. न्यत्रान्वयः क्लृप्तो भज्येत । तस्मात् कृत्यनभिधाय. कभावकर्मकृद्योगे क्लृप्तशक्तेः सुपो लब्धया भावनया विशिष्टायाः क्रियायाः फलेऽन्वयः, सुबर्थ-कृते. विक्लित्त्यां विशेषणत्वेनैवान्वयस्य व्युत्पन्नत्वात् कर्तकर्मवच्च कृति-फलयोरप्यभिधाननियमान्नातिप्रसङ्गः। न वा पक्ष्यते तण्डुलो मैत्र इत्यादयः प्रयोगाः। तिकुपस्थापितायाः संख्याया भावनाया इव प्रथमान्तपदोपस्थाप्येनैवान्वयो व्युत्पन्नः ॥ ८॥ तण्डुल इति बोध इति भावः । ननु भावनैव धात्वथें विशेषणीभूय भासते तथाच भावनाविषयकपाकजन्यफलशाली तण्डुलः इत्येवान्वयबोध इत्यत आह-भावनेति । भावनायां सङ्ख्याकालेष्टसाधनार्थव्यतिरिक्तार्थे । अन्यत्रेति । पच. तीत्यादावित्यर्थः । अन्वयः अन्वयबोधनियमः । न च क्रियायाः फल-भावनयोरुभयत्रैव विशेषणतया अन्वयवोधोऽस्तु क्रियावत् तद्विषयकभावानापि जन्य. तासंबन्धेन फलविशेषणमस्तु फलं च तण्डुले विशेषणमस्त्विति वाच्यम् । तादृशबोधस्यापि तत्रानुभवसिद्धत्वादिति भावः । भाव-कर्मेति । चैत्रेण पक्कं चैत्रेण पक्क ओदन इत्यादावित्यर्थः । सुपः तृतीयाविभक्तितः । भावनया कृत्या । तथाच चैत्रण पच्यते तण्डुल इत्यादौ चैत्रनिष्ठकृतिजन्यपाकजन्यफलशाली तण्डु. लइत्यन्वयबोधः । उभयत्रैव जन्यत्वं संवन्धः । तण्डुलपदं च तण्डुलावयवपरं, तेन विक्लित्तिरूपस्य तस्य तण्डुलात्तित्वेऽपि न क्षतिः । एवमोदनः पच्यते तण्डुल इत्यादावोदनादिपदमपि बोध्यम् । न चैवं तथापि यत्रावयवविक्रित्तिरूपं फलं नोत्पन्नं तत्रैव तद्वाक्यस्यायोग्यत्वापत्तिरिति वाच्यम् । इष्टत्वादिति भावः । ननु कृतेः क्रियाविशेष्यत्वमेवेति व्युत्पत्ते: कथमेतदित्यत आह-सुबर्थेति । व्युत्पन्नत्वादिति चैत्रेण पक्वमित्यादौ व्युत्पन्नत्वादित्यर्थः तथाच तिर्थकृतेरेव तथात्वमिति भावः । नियमादिति शबादेः सहकारेणैव कृतेः, यकः सहकारेणैव फलस्य सार्वधातुकेनैवाभिधानं युगपत्कृतिफलयोरभिधानं च नाख्यातमात्रेण इति नियमादित्यर्थः । नातिप्रसङ्ग इति । चैत्रः पच्यते इत्यादौ कृतेः,तण्डुलः पचतीत्यादौ फलस्य न प्रत्ययप्रसङ्ग इत्यर्थः । प्रयोगाः युगपत्कृति-फलबोधकाः । - नन्वेवं कर्माख्यातेन भावनाया अनभिधाने आख्यातार्थभावनाविशेप्यत्वस्य तदर्थसंख्यान्वयानियामकत्वात् तत्र किं नियामकं स्यादित्यत आह-तिकुपस्थापिताया इति, भावनायाइव कर्नाख्यातार्थभावनाया इव । प्रथमान्तेति