________________
१३ ग्रन्थः ] आख्यातशक्तिवादः ।
९१ तीत्यादाविव वाक्यार्थः । अस्तु च फल-कर्मणोरपि संबन्धस्तथा फलं तु कस्यार्थः । न च तदपि तथा, प्रकारीभूय भासमानत्वात् । फलावच्छिन्नक्रियाया धात्वर्थत्वेऽपि क्रियाजन्यफलालाभात् विशेष्यविशेषणभावविपर्ययस्यावश्यकत्वात् । तस्मात् फलमात्मनेपदार्थः, इत्थं च आख्यातोपस्थापिताया भावनायाः क्रियाविषयिण्याः फलेऽन्वये फलस्य क्रिवाक्यार्थः संसर्गमर्यादया लभ्यः। रथेन गम्यते इत्यादौ पुनराधेयत्वं तृतीयाविभतेरेवार्थः, नामार्थ-धात्वर्थयो दान्वयस्याव्युत्पन्नत्वात् । न च चैत्रेण पच्यते इत्यत्राधेयत्वस्य संसर्गवे चैत्रः पच्यते तण्डुलः इत्यादावपि तथा स्यादिति वाच्यम्। तादृशान्वयबोधे तृतीयायाः सहकारित्वात् । चैत्रं पच्यते तण्डुलः चैत्रो पच्यते तण्डुल इत्यादौ द्वितीयाधुपस्थिताधेयत्वाद्यन्वयाभावेन त्वयापि आधेयत्वे तृतीयोपस्थाप्यत्वस्य नियामकस्यावश्यं वक्तव्यत्वादिति भावः । फलकर्मेति । सम्बन्धः शालित्वरूपः। तथा वाक्यार्थः । अपिशब्दात् क्रिया-फलयोापार-फलयोः समुच्चयः । तत्रापि जन्यत्वस्य वाक्यार्थत्वात् । न चेति । तदपि फलमपि । तथा संसर्गः। तथाच मैत्रनिष्ठपाकभावनावान् तण्डुल इत्यादिरन्वयबोधः । स्वजन्यफलवत्त्वं स्वविपयक्रियाजन्यवत्त्वं वा सम्बन्धः नतु मैत्रनिष्ठभावनाविषयपाकशालितण्डुल इत्यन्वयबोधः । अतो धात्वर्थ-नामार्थयों देनान्वयस्याव्युत्पन्नत्वेऽपि न क्षतिरिति भावः ।।
ननु फलावच्छिन्नक्रियाया धात्वर्थत्वात् धात्वर्थ एव फलमित्यत आह-फलावच्छिन्नेति । विक्लित्ति-संयोगाद्यात्मकफलविशिष्टेत्यर्थः । वैशिष्टयं च जन्यजनकभावः । क्रियाजन्येति । पच्यते तण्डुल इत्यादौ पाकजन्यफलशाली तण्डुलः रथेन गम्यते ग्राम इत्यत्र स्थनिष्ठगमनजन्यफलशाली ग्राम इति बोधस्यानुभवसिद्धस्याभावप्रसङ्गादित्यर्थः । विशेष्य-विशेषणभावेति । यद्पविशिष्टे वृत्तिग्रहस्तदूपविशिष्टस्यैव पदेन बोधनादिति भावः । इदमुपलक्षणं, धात्वर्थ-नामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वात् , इतरविशेषणत्वेनोपस्थितस्यान्यत्र विशेषण. त्वेनान्वयस्याव्युत्पन्नत्वाच । धात्वर्थंकदेशस्य कर्मणि साक्षादन्वयासंभवात् फल. त्वेन फलाभावप्रसङ्गाच, विक्लित्ति-संयोगत्वादिरूपेण फलस्य धात्वर्थतावच्छेदकत्वादित्यपि बोध्यम् । आत्मनेपदार्थ इति । ___ एतावत्पर्यन्तं प्राचीनमतविवेचनं तद्दषयति-इत्थं चेति।भावनायाः यनस्य, एतच्च पच्यते तण्डुल इत्यादा, तथाच तत्र पाकविषयककृतिजन्यफलशाली
१ फलाभावादिति पाठः।