________________
वादार्थसंग्रहः
[४ भागः
नव्यास्तु भावनादेराख्यातलभ्यत्वात् आधेयत्व. मात्रं तृतीयार्थोऽस्तु संख्यामात्रं वा, संबन्धस्तु पच
सविषयनिर्विषयव्यापाराभिधानभेदेन सिद्धान्तयति—अत्र प्राञ्च इत्यादि। मैत्रनिष्ठेति । निष्ठत्वं तृतीयार्थः संसर्गो वा पाकान्विताख्यातार्थभावनायां भासते । विषयत्वं तु भावनायाः कर्मणि संसर्ग इति बोध्यम् । ननु कर्माख्याताक्रियाजन्यफलरूपकर्मत्वप्रकारकान्वयबोधस्यानुभविकत्वान्नेदं युक्तमत आहमैत्रनिष्ठ इति । अत्र मैत्रनिष्ठत्वस्य तत्संसर्गेण मैत्रस्य वाऽऽख्यातार्थभावनायां तस्या धात्वर्थे तस्य फले इत्यादिकं बोध्यम् । नन्वेवं भावनाविशेष्ये संख्यान्वय इति व्युत्पत्त्या भङ्ग इत्यत्राह-साक्षादिति । प्रथमे प्रकारे साक्षात् , द्वितीये धात्वर्थादिना परंपरयेति बोध्यम् । रथनिष्ठेति । रथनिष्ठत्वस्य धात्वर्थे गमनेऽन्वयो नत्वाख्यातार्थव्यापारे, रथस्य गमनेऽन्यदीय इत्यादिना निरस्तत्वात् । धात्वर्थनामार्थयोर्भेदेनान्वयस्याव्युत्पन्नत्वाच्च । धात्वर्थस्याख्यातार्थव्यापारे तस्य फल इत्यादि बोध्यम् । एतेनात्रापि कर्मत्वप्रत्ययानुरोधाद्रथनिष्ठव्यापारजन्यगमनजन्यफलशालीत्यन्वय इत्यपात्तम् । पूर्वोक्तप्रकारेण फले व्यापारस्य स्वजन्यधात्वर्थजन्यत्वेनान्वयाद्धात्वर्थजन्यत्वस्य संसर्गतया फले लाभात्कर्मत्वलाम इत्यभिप्रेत्यैव दीधितिकृता प्रकारभेदो नात्र लिखित इति बोध्यम् । व्यापारविशेष्य इति । परंपरयेत्यादिः । अत्र नवीनोक्तकर्तृस्थलीयबोधानुसारेण रथनिष्ठगमनजन्यफलशालिग्राम इत्येव युक्तम् । न च व्यापाराप्रवेशे आख्यातार्थव्यापारस्याप्यभावात्संख्यान्वयो न स्यादिति वाच्यम् । जानातीत्याद्यनुरोधेनाश्रयत्वादेरपि भावनापदेन तत्र ग्रहणात् । अत्र निष्ठत्वस्यैव भावनार्थत्वात् । न चाश्रयत्वस्याख्यातार्थतया भावनात्वे फलस्यापि तत्त्वात्तण्डुलग्रामादेः साक्षादेव फलविशेष्यत्वात्परंपरयत्याद्ययुक्तमिति वाच्यम् । वर्तमानत्वादीष्टसाधनत्वादिप्रार्थनादिव्यावृत्तये भावनापदस्याख्यातसामान्यवृत्तिविषयपरत्वेन व्याख्यातत्वात् । आश्रयत्वादौ लक्षणाया आख्यातसामान्यीयत्वेऽपि पचतीत्यादौ मुख्यार्थाबाधात्तात्पर्याभावान्न तद्बोधः । भविष्यत्सामीप्ये वर्तमानेत्याद्यानुशासनिकी लक्षणा तु न सार्वत्रिकीति प्राचामाशयः । इदं तु बोध्यम् । साक्षात्परंपरया भावनाविशेष्यत्वं । धात्वर्थादिसाधारणमत एव नव्यनये तत्त्याग इति ॥ ७ ॥
(मथु०) प्राचां मते दूषणाभिधानपूर्वक मतान्तरमाह-नव्यास्त्विति । भावना यनः । आदिपदात् व्यापारत्वविशिष्टपरिग्रहः । संख्यामात्रं वेति । चैत्रेण पच्यते इत्यादावित्यादिः । संबन्धस्तु निष्ठतारूपसंबन्धस्तु ।