________________
८९
१३ ग्रन्थः] आख्यातशक्तिवादः। भावनाविशेष्य इत्यनुपज्यते । अवान्तरमाशङ्कते-विषयतयेतीति । चैत्रेण पच्यते तण्डुल इत्यत्र तण्डुलश्चैत्रवृत्तिपाकभावनाविषय इत्यन्वयो वाच्यस्तथाच तत्र तण्डुलस्य भावनाविशेष्यत्वेनाख्यातार्थसंख्यान्वयित्वं नानुपपनमित्यर्थः । रथेनेति । रथत्तेर्गमनानुकूलव्यापाररूपभावनायाः सत्त्वेऽपि तस्या नोदनादिरूपतया निर्विषयत्वेन तद्विषयत्वान्वयासंभवादित्यर्थः। __ सचेतनकर्तृकक्रियास्थले सर्वत्र तात्पर्यभेदेन द्विविधान्वयबोध प्रदर्याचेतनकर्तृकक्रियास्थले एकविधमन्वयं प्रदर्शयिष्यति-मैत्रेणेत्यादि । 'पाकभावनाविषय इत्यस्य वक्ष्यमाणतण्डुल इत्यनेनान्वयः । मैत्रनिष्ठेति । अत्र निष्ठत्वं तृतीयार्थः, भावना आख्यातार्थः, विषयत्वं जन्यत्वं च संसर्गः; फलमात्मनेपदार्थः, शालित्वमाश्रयत्वरूपं संसर्ग इत्यर्थः । साक्षादिति प्रथमबोधानुसारेण, परम्परयेति द्वितीयबोधानुसारेणेति । अचेतनकर्तृकक्रियास्थले एकविधमेवान्वयं दर्शयतिरथेनेति । व्यापारविशेष्य इति । तथाच परम्परया भावनाविशेष्ये ग्रामे संख्यान्वयो नानुपपन्नः साक्षात्परम्परया वा भावनाविशेष्यत्वमात्रस्याख्यातार्थसंख्यान्वयनियामकत्वादिति भावः । एवमन्यत्रापि कर्मप्रत्ययस्थले ॥ ७॥
(रघु०) कथमिति । केन संबन्धेन भावनाया विशेष्य इत्यर्थः । सिद्धान्ती शंकते—विषयतयेति । [अन्वयश्चास्य कथं पदार्थैकदेशे भावनाया विशेष्ये ] तथा च चैत्रेण पच्यते तण्डुल इत्यादौ तण्डुलो विषयतासंबन्धेन भावनाविशेष्य - इत्यर्थः । सविषयव्यापारेति । सविषयव्यापारानभिधानस्थल इत्यर्थः । रथेन गम्यते ग्राम इत्यादौ नोदनाख्यसंयोगरूपव्यापारस्याख्यातार्थतया तस्य च निर्विषयतया विषयतासंबंधेन ग्रामादावन्वयाभावेन उपदर्शितरीतेरत्यन्तासंभवदुक्तिकतेति भावः ।
मैत्रनिष्ठपाकभावनेति । मैत्रनिष्ठा या पाकानुकूलभावना तद्विषयस्तण्डुल इत्यर्थः । तण्डुले तथाविधभावनाविषयत्वं भावनोद्देश्यफलकत्वं कर्माख्यातस्थले कर्मत्वप्रकारककर्मविशेष्यकबोधस्यानुभवविषयत्वे त्वाह-मैत्रनिष्ठेति । प्रतीयत इतीति तादृशवाक्यजन्यबोध इति शेषः । साक्षात्परंपरयेति । अत्र चोपदर्शितबोधद्वयानुरोधेन तथा वैकल्पिकोपादानमिति ध्येयम् । रथेन गम्यते ग्राम इत्यादौ ग्रामे भावनायान्वयप्रकारमाह-रथेन गम्यते ग्राम इत्यादिना। तथा च कर्माख्यातस्थले भावनाया धात्वर्थेऽन्वयः, क्वचिद्विषयतया कुत्रचित जन्यतया कर्मणि तु परंपरयेति भावः ॥ ७ ॥
(जय०) कथं केन संबन्धेन भावनाविशेष्य इत्यनुषज्यते । उत्तरंविषयतयेति । सविषयेति । तत्रानुकूलव्यापारस्य नोदनात्मकसंयोगस्य विषयत्वाप्रसिद्धेरिति भावः ।