________________
वादार्थसंग्रहः
[४ भागःगतिः । अत्र प्राश्चः-मैत्रेण पच्यते तण्डुलइत्यत्र मैत्रनिष्ठपाकभावनाविषयः, मैत्रनिष्ठभावनाविषयपाकजन्यफलशाली वा तण्डुलःप्रतीयत इति साक्षात्परम्परया भावनाया विशेष्यस्तण्डुलः, रथेन गम्यते ग्राम इत्यत्र रथनिष्ठगमनानुकूलव्यापारजन्यफलशाली ग्रामः प्रतीयते इति व्यापारविशेष्यो ग्राम इति ॥७॥ . मैत्रनिष्ठेति । अत्र निष्ठता तृतीयार्थः, सा चाख्यातार्थभावनान्वयिनी, विषय इत्यत्र विषयत्वं संसर्गः। पाकाकर्मण्यपि तण्डुले तण्डुलत्वरूपेण मैत्रनिपाकभावनाविशेष्यत्वस्य सत्त्वात् तत्रापि मैत्रेण पच्यत इति प्रयोगप्रसङ्गात् , कर्माख्यातस्थले फलवत्ताप्रतीतेरनुभवसिद्धत्वाचाह-मैत्रनिष्टेति । अत्रापि निष्ठत्वं तृतीयार्थः, भावना आख्यातार्थः; नतु निष्ठत्वं संसर्गः, भावना तृतीयार्थः। समानपदोपात्तत्वेनाख्यातार्थभावनाविशेष्य एव तदर्थसङ्खयान्वयः इति प्रागुक्तव्युत्पत्तिभङ्गापत्तेः । भावनाविपयत्वं च भावनाविषयकत्वं(?)भावनाजन्यत्वमिति यावत् । अन्यथा पाकवरूपेण मैत्रकृतिविषयचैत्रनिष्ठकृतिजन्यपाककर्मण्यपि तण्डुले मैत्रेण पच्यतेऽयं तण्डुल इति प्रयोगापत्तेः । फलमपि कर्माख्यातार्थः, फलत्वं कार्यत्वं, प्रतियोगितासंबन्धेन प्रागभावादिमत्त्वमिति यावत् । अत एव व्यापारतो भेदः, जन्यत्वं शालित्वं च संसर्गः । पदानां स्वार्थान्वयपुटितपदार्थान्तराबोधकत्वव्युत्पत्तेश्चात्र नादरः, स्वर्गकामो यजेतेत्यादौ विध्यर्थेष्टसाधनत्वकृतिभ्यां पुटितस्य धात्वर्थस्य घटो भविष्यतीत्यादावाख्यातार्थवर्तमानप्रागभाव. प्रतियोगित्वाश्रयत्वाभ्यां पुटितस्योत्पत्तिरूपधात्वर्थस्य चान्वयाभ्युपगमेन तद्वयुत्पत्तेरसार्वत्रिकत्वादिति भावः ।
नन्वेवमाख्यातार्थभावनात्वविशिष्ट विशेष्यः कथं तण्डुलः भावनात्वस्य प्रयत्नव्यापारत्वादिरूपतया फलत्वस्यातथात्वादित्यत आह-साक्षादिति । पूर्वत्र साक्षादुत्तरत्र परंपरयेत्यर्थः । रथनिष्टेति । अत्रापि शालित्वं जन्यत्वमनुकूलत्वञ्च संसर्गः, फलस्य व्यापारजन्यत्वं धात्वर्थद्वारा तत्प्रयोज्यत्वं, निष्ठत्वं तृतीयार्थः, अन्वयस्तस्य धात्वर्थगमने नतु व्यापारे, अन्यदीयग्रामगमनाठकूलनोदनादिमति निश्चलेऽपि रथे अनेन रथेन गम्यते ग्राम इति प्रयोगापत्तेः। अत एवं प्रागेव रथनिष्ठव्यापारजन्यगमनजन्यफलशाली ग्राम इत्यन्वयो नोक्तः । व्यापारविशेष्य इति । परंपरया व्यापाररूपाख्यातार्थभावनाविशेष्य इत्यर्थः॥ ७ ॥
(राम) ननु भावनाविशेष्ये यदि संख्यान्वयस्तदा कर्मप्रत्ययस्थले भावनाविशेष्यत्वविरहादाख्यातार्थसंख्यान्वयित्वानुपपत्तिरित्याशयेन शङ्कते-अथेति । भावनाविशेष्य इति, आख्यातार्थसंख्यान्वयी च स्यादिति शेषः । कथमित्यत्र