________________
१३ ग्रन्थः] आख्यातशक्तिवादः। ___ अथ तण्डुलं पचति चैत्रः इत्यादावाश्रयतया चैत्रोऽस्तु भावनाविशेष्यः मैत्रेण पच्यते तण्डुल इत्यादौ तण्डुलस्तु कथं, विषयतयेति चेत्, रथेन गम्यते ग्रामः इत्यादौ सविषयकव्यापारानभिधाने का कर्मणो बोधप्रसङ्गाच्च । मम यगादिसहकारेण कर्तुरबोधकतावच्चाश्रयतया कृतेरप्यबोध इत्याह-तण्डुलमिति । तवैकदा कर्तृकर्मोभयबोधवन्ममाप्येकदाश्रयतातदन्यसंसर्गाभ्यां न बोध इत्याह-मैत्रः पक्ष्यत इति । ननु यत्र यापारे आश्रयत्वे वा लक्षणा तत्र भावनान्वयाभावात्संख्यान्वयो न स्यादत आह-भावना चेति । अत्र व्यापारपदमाख्यातसामान्यवृत्तिविषयपरं, तेन जानातीत्यादिसाधारण्यम् । अचेतनेति अचेतने संख्यान्वयानुरोधादित्यर्थः । अत्राचेतनपदमपि तादृशाख्यातान्वयिपरं, तेनाश्रयसाधारण्यमिति बोध्यम् ।
नन्वाख्यातशत्रादिपदयो: सामानाधिकरण्यमेवासति बाधके एकधर्मिशक्तिसाधकमिति प्रकृते कर्तृकर्मणोः शक्तिसिद्धिरिति वैयाकरणोक्तं प्रत्याचष्टेभिन्नाभ्यामिति । अत्रैकधर्मिबोधकत्वं घटो घट इत्यादावप्येकघटस्मारकेऽस्ति । न चात्र सामानाधिकरण्यव्यवहार इत्यत आह-भिन्नाभ्यामिति । तादात्म्येन स्वार्थान्वितार्थशाब्दबोधजनकत्वमिति फलितम् । तेन नीलो घटो गुणवद्रव्यमिति द्रव्यघटयोरपि व्युदास इति बोध्यम् । नन्वत्र बोधकत्वं शक्त्या शक्तिलक्षणान्यतरत्वेन वाद्ये असिद्धमिति, द्वितीये लक्षणयाऽपि निरुक्तसामानाधिकरण्यसंभवान्न ततो धर्मिशक्तिसिद्धिरित्याह-संभवदिति । न वार्यत इति कृत्या शक्त्यापीति शेपः । शक्तिसिद्धौ सामानाधिकरण्यसिद्धिरिति तस्मिंश्च तज्ज्ञानाच्छक्तिसिद्धिरित्यन्योन्याश्रयो नाशङ्कयः । विनाऽपि सामाधिकरण्यमाप्तवाक्यादितस्तज्ज्ञानसंभवात् । अन्यादृशं तादात्म्यानन्तर्भावेन स्वार्थान्वितार्थबोधकत्वमात्रमित्यन्ये। अत्र शक्यतावच्छेदके शक्तेरभावकत्रर्थे शक्तिर्नतु कृतावनन्तत्वादित्येके । नैतद्युक्तं, शक्यतावच्छेदकत्वस्य कृतित्वविशिष्टे कल्पनायां गौरवादित्यपरे ॥ ६ ॥
(मथु०) कर्मणि पुनरन्यथा, इत्यन्यथाशब्दार्थ विवेचयितुं शकते-अथेति। कथमिति केन संबन्धेन भावनाविशेष्य इत्यर्थः । उत्तरयति-विषयतयेति । उत्तरं निराकरोति-रथेनेति । कथमाख्यातोपस्थिताया गमनायनुकूलव्यापाररूपाया भावनाया विशेष्यो प्रामादिरित्यर्थः। तत्र गमनानुकूलव्यापारस्य नोदनादेविषयाप्रसिद्धेरिति भावः।