________________
सटीकता किंकरक्षाया:
महाभारते सभापर्वणि ३० अध्याये (१) " वशे चक्रे महातेजा दण्डकाश्च महाबलः । सागरद्वीपवासाँश्च नृपतीन् म्लेच्छ्योनिजान् ॥ निषादान पुरुषादाच कर्णप्रावरणानपि । ये च कालमुखा नाम नरराक्षसयोनयः ॥ कृत्स्नं कोलगिरिं चैव सुरभीपट्टणं तथा । द्वीपं ताम्रायं चैव पर्वतं रामकं तथा ॥” इति ।
अत्र रामकं पर्वतमित्युक्या चित्रकूट एवं बोध्यः मल्लिनाथेनैव कश्चित् कान्ताविरहगुरुणेति मेघदूतारम्भश्लोकव्याख्याने " रामगिरे चिनकूदस्ये" ति व्याख्यातत्वात् । सुरभीपट्टणस्येदानीं किमपि नामान्तरं जातमित्यतस्तन्न विज्ञायते ।
मार्कण्डेयपुराणे कूर्मनिवेशाध्याये
"आवन्तयो दासुपुरास्तथैवाकरिणो जनाः (P) महाकर्णः सकर्णीच गोनन्दाश्चित्रकूटकाः ॥ arar: कोलगिराचैव कौभ्वद्वीषाः जटाधराः । कावेरा ऋष्यमूकस्था नासिक्याश्चैव ये जनाः ॥ शङ्खमुकाश्च वैदूर्यशैलप्रान्तरिताश्च ये (२)||" इत्यादि ।
इत्यनेन मल्लिनाथस्य चित्रकूटसमीपस्थत्वात् वोरभद्रेण च चित्रकूटोपकण्ठे सप्तशतीटीकाप्रणयनाद् द्वयोरप्येकदेशनिवासित्वं सिद्धम् । वाणों काणभुजी मिति श्लोकस्य काणादे चाक्षपादे इत्यनेन श्लेोकेनानूदितत्वात्
(१) बहुदेशस्य - एशियादि सोसाइटी द्वारा मुद्रिते महामारतपुस्तके ३५० पृष्ठे द्रष्टव्यम् ।
(२) पाठोऽयं वाराणसी स्यराजकीय संस्कृतपाठशालीयपुस्तके १४३ पत्रे वर्तते ।
१०४