________________
३०६
सटीकतार्किकरक्षायाम्
प्यस्तीति सर्वेषामपि प्रसङ्गानां यथायथं तर्कीङ्गपञ्चकान्यतमहा निरूहनीया । एतामेव जातिमवष्टभ्य शुष्कतर्कवादिनां बौद्ध चावीक वेदान्तिनां बालजनसम्मोहन हेतवः कण्ठकोलाहला इति संक्षेपः ॥ २८ ॥ असिद्धतां वादिहेतेारुक्तान्तं साधयेत् स्वयम् । तदूषणान्मूल हेतुभङ्गः कार्यसमो मतः ॥ २६ ॥
0
6
हेतुशब्दोत्र साधनाङ्गोपलक्षणार्थ: तेन पक्षहेतुदृष्टान्तानामन्यतमस्य साधनाङ्गस्यासिद्धत्वमुद्दाव्य तत्साधकत्वेन स्वयमेवोत्प्रेक्षया किञ्चिदभिधाय स्वात्प्रेक्षितदूषणेन वादिसाधनभङ्गापादनं कार्यसमः । अनित्यः शब्दः कार्यत्वादित्युक्ते प्रत्यवतिष्ठते । प्रसिद्धं तावत् कार्यत्वं तत्साधकं च प्रयत्नानन्तरीयकत्वं तच्चाभिव्यक्ती कूपादकादिभिरनैकान्तिकम् । ततश्च कार्यत्वासिद्धिस्तदवस्यैवेति । एवं पक्षदृष्टार्थः । सर्वेषामपीति । नित्यानित्यत्वादिसर्वे। परञ्जकधर्ममुद्दिश्य ये प्रसङ्गाख्यास्तका उक्ताः तेषु केचिदव्याप्ताः केचित् प्रतितर्क पराहताः केचिदिष्टार्थीय पर्यवसानहीनाः केचिदरूपाः केचिदनुकूलाः अतः सर्वे तकीभासा इत्यूerreferर्थः । बालजनसम्मोहना न्यायतत्त्वानभिज्ञ बालजनभ्रामिका ॥ २८ ॥
तत्साधकं चेति । शब्दः कार्ये भवितुमर्हति प्रयत्नानन्तरभावित्वात् घटवत् प्रमाणात् कार्यत्वहेतुसिद्धिरित्यर्थः । एवं पक्षदृष्टान्तयोरपीति । शब्दद्घटयेरनित्यत्वं नाम प्रध्वंसनं तयोः सम्बन्धो विद्यमानकाले ऽपि नष्टकाले वा ।
900