________________
जातिनिरूपणम् ।
न्तयेोरपि दर्शयितव्यम् । कथं तर्हि प्रयत्नकार्यानेकत्वात् कार्यसम इतिसूत्रसङ्घटना । किमत्र दुर्घटं प्रयह्रस्य कार्यो विषयः हेयोपादेयतया व्यवहर्तव्य इति यावत् । तस्यानेकत्वं पारमार्थिकापारमार्थिकत्वम् । तस्मात् प्रत्यवस्थानमिति । यद्वा प्रयत्नविषयस्यानेकत्वं जन्यत्वाभिव्यङ्ग्यत्वाभ्यां नानात्वम् । तस्मादनेकान्तिकत्वेन प्रत्यवस्थानमित्युदाहरण विशेषपरं योजनीयम् । बौद्धास्तु
३००
२
साध्येनानुगमात् कार्यसामान्येनापि साधने । सम्बन्धिभेदाद्वेदोक्तदोषः कार्यसमो मतः ॥
आधे व्याघातः द्वितीये परस्पराश्रयत्वम् अतः पक्षदृष्टाPrefest तत्साधकं च शब्दघंटी प्रध्वंससम्बन्धयोग्या पूर्वत्रिकान्तर्भूतत्वात् व्यतिरेके व सामान्यवदित्याद्यनुमानम् तचात्मादावनैकान्तिकम् अतस्तयोरसिद्धिस्तदवस्थैवेत्यादिकं द्रष्टव्यमित्यर्थः । उक्तार्थस्य सौन्नत्वं नास्तीति शङ्कते । कथं तर्हति । प्रथमं सकलानुमानव्यापकं सूत्रार्थमाह । प्रयत्नस्य कार्यो विषय इति । हानोपादानव्यवहाररूपानुमानवाक्यगोचरस्य लिङ्गादेः सिद्धत्वासिडत्ववतः प्रत्यवस्थानं कार्यसम इति सूत्रस्याहत्यार्थः । शब्दानित्यत्वानुमान परमर्थान्तरमाह । यद्वेति । साध्येनानित्यत्वेनाव्याप्तत्वात् कार्यत्वहेतुना शब्दस्यानित्यत्वसाधने कृते सपक्षे साध्येन व्याप्तो हेतुः पक्षे नास्तीति पक्ष वर्तमाना हेतुनास्त्यतो सिडो साधारणो वा स्यात् ॥
19 No. 12, Vol. XXII. - December, 1901,
७५