________________
जातिनिरूपणम् ।
योरपि योज्यम् । एवमन्य आकारो न भवत्यन्यत्वादित्यादावपि दर्शयितव्यम् । अन्न सर्वत्र धर्मधर्मिभावानभ्युपगमे तवापि न हेतुसाध्ये स्थाताम् । तदभ्युपगमे वा न प्रतिषेध इति सर्वत्रापि व्याप्तिहान्या युक्ताङ्गहानिश्च दर्शयितव्या । उपलब्धियोगादुपलव्यस्तत्रापि तथेति युक्तियोगासुतस्तत्रापि तथेति कृतियोगात् कार्यं तत्रापि तथेत्यादाविष्टप्रसङ्गत्वमस्थानप्रसङ्गात् । एवं हेतुदृशन्तयोरपीति । इदमसाधकमसिद्धत्वात् शब्दानित्यत्वे चाक्षुषत्यवत् इत्यत्रासिद्धियोगादसिडत्वं सा च तदाकारवृत्त्यादिकं चक्षुः सम्बन्धाचाक्षुषत्वं स च सम्बन्धस्तदाकाशे तदाकारो वेत्यादिकं वाहनीयमित्यर्थः । अन्य आकार इति । अन्यत्वादिकं शब्दादेराकारो न भवितुमर्हति तदन्यत्वात् घटस्य पटवदित्याधनुमानेऽपि प्रतिज्ञाहेतुदृष्टान्तेषु पूर्वोक्तरीत्या व्याघातो दर्शयितव्य इत्यर्थः । पुनरप्यसाधारणदोषमाह । अत्र सर्वनेति । सर्वत्र जातिवादिनोतदाकारस्तदाकारो वेत्यादिसर्वानुमानेषु न हेतुसाध्ये स्यातां हेतुसाध्ययोरपि धर्मिणो धर्मत्वाद्धर्मधर्मिभावानभ्युपगमे ते ऽपि न स्त इत्यर्थः । तदभ्युपगमे वेति । अनुमानसिद्धार्थ धर्मधर्मिभावाभ्युपगमे वातदाकारस्तदाकारो वेत्यादिना वादिarrafaषेधो न सिद्ध्यतीत्यर्थः । व्याप्तिहान्या जातिवादिना तत्रतत्रोक्तप्रतिकूलतकीणां दूषणव्याप्त्यभावेनेत्यर्थः । केषुचिदुपरञ्जकधर्मेषु तर्कस्याङ्गान्तरहानिमाह । उपलब्धियोगादिति । इष्टप्रसङ्गत्वम् उपलब्धिकृतीनामुपलoar स्वकार्यत्वसहभावात् तत्प्रयोगोस्मदिष्ट इत्य
६६६
३०५