________________
सटीकतार्किकरक्षायाम
योत्तरसंयोगनैमित्तिकद्रवत्वपरत्वापरत्वापाकजाश्च संयोगजाः । संयोगविभाग वेगाः कर्मजाः । शब्दोंत्तरविभागौ विभागजी । परत्वापरत्वद्वित्वद्विपथक्कादयश्च बुद्ध्यपेक्षा : (१) तद्विनाशात् तद्विनाश ( २ ) इति । रूपादयः पञ्चापि भूतगुणाः । रूपरसगन्धस्पर्शशब्दपरिमाणैकत्वैकपृथक्त स्नेहाश्च समानजात्यारम्भकाः । सुखदुःखेच्छाद्वेषप्रयत्ना असमान
१५२
दशग्रहणं तु भाष्यकारीयकण्ठात्यभिप्रायमिति । संयोगजा इति । गुणत्वे सति संयोगासमवायिकारणका इत्यर्थः । कर्मजा इति । वेगेन स्थितिस्थापकोऽप्युपलक्ष्यते तावप्यकारणगुणपूर्वको संयोगविभागाव प्याद्यौ ग्रा । एवं विभागजत्वं च विभागासमवायिकारणत्वम् । शब्दोऽत्र शब्दसंयोगजन्यो विवक्षितः । बुद्धिरसाधारणनिमित्तत्वेनापेक्ष्यत इति बुद्धापेक्षा: अपेक्षा बुद्धिजन्या इत्यर्थः । रूपादयः पञ्चापीति । अपिशब्दाद् गुरुत्वद्रवत्वस्नेहकालकृतपरत्वापरत्वकारणगुणपूर्वक वेगस्थितिस्थापकानां संग्रहः । भूतगुणाः भूतैकगुणा इत्यर्थः । एतेनात्मविशेषगुणा नवाप्यभूतगुणाः शेषास्तु भूताभूतगुणा इत्यर्थात् सिद्धमिति बेोद्धव्यम् । रूपादयः स्नेहान्ताः समानजात्यारम्भका इति । सजातीयमात्रारम्भका इत्यर्थः । अन्यथा भयारम्भकेष्वतिव्याप्तेः । आरम्भकत्वं
પૂ
Ca
(१) अपेक्षा बुद्धिजन्या:- पा. D पु.
(२) तद्विनाशविनाशिन:- पा. B पु· ।