________________
प्रमेयप्रकरणे गुणनिरूपणम् ।
१५१
यद्वयग्राह्याः यथा संख्यापरिमाणपृथक्त संयोग विभागपरत्वापरत्वद्रवत्वलेह वेगाः । केचिदन्तःकरणग्राह्याः । यथा बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नाः । धर्मधर्मभावनागुरुत्वानि नित्यातीन्द्रियाणि । अत्र एकादश गुणाः कारगुणपूर्वकाः । यथाऽपाकजरूपरसगन्धस्पर्शपरिमाणैकत्येक पृथक्तगुरुत्वद्रवत्वस्त्रे हवेगाः । दश त्वनेवंविधाः बुद्ध्यादय श्रात्म विशेषगुणाः शब्दश्चेति । तूलपरिमा
narasaच्छेदार्थ बाह्यपदम् । अन्यथैकेन्द्रियग्राह्यत्वासम्भवात् । एकपदं हीन्द्रियग्राह्यनिरासार्थम् । तथापि परमाणुरूपादावव्याप्तेः तन्निष्ठगुणत्वावान्तरजातिमत्त्वेन नियात् । एवं हीन्द्रियग्राह्यत्वमपि निर्वक्तव्यम् अन्यथा परमाणुगतेष्वव्याप्तेः । अन्तःकरणग्राह्या इति । गुणत्वे सति aroorat इत्यर्थः । तेन सुखत्वादेबीन्द्रियग्राह्माणां च निरासः । नित्यातीन्द्रियाणीति । अस्मदादीन्द्रियग्रहणयोग्यतारहितानीत्यर्थः । भावनेति स्थितिस्थापकस्याप्युपलक्षणम् । कारणगुणपूर्वका इति । स्वसमवायिसमवायिकारणगुणा समवायिकारणका इत्यर्थः । अपाकजपदेन द्रवत्वमपि विशेषणीयम् पार्थिवपरमाणुगतरूपादिवत् पार्थिवतैजसपरमाणुगत नैमित्तिकद्रवत्वस्यापि व्यावर्तनीयत्वात् । वेगेन स्थितिस्थापकोऽप्युपलक्षणीयः तयोरप्य क्रियाजन्यत्वेन परिमाणस्य संख्या प्रचयाजन्यत्वेन च विशेषणात् तज्जन्येषु लक्ष्यबहिष्कारान्नाव्याप्तिदोषः । दश त्वनेवंविधा इति । अकारणगुणपूर्वका इत्यर्थः । एतच पाकजपरत्वापरत्वादीनामप्युपलक्षणम् । अन्यथा तेष्वेवा तिव्याप्तेः ।
પુછ્યું