________________
प्रमेयप्रकरण गुणनिरूपणम् ।
जात्यारम्भकाः । संयोगविभागसंख्या गुरुत्वद्रवत्वोष्णस्पर्शस्नेहज्ञानधर्माधर्मसंस्काराः समानासमानजात्यारम्भकाः । बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमत्रेतारम्भकाः । रूपरसगन्धस्पर्शपरिमाण स्नेह प्रयत्नाः परत्रारम्भकाः । संयोग विभागसंख्ये कत्वैकपृथक्त गुरुत्वद्रवत्वस्नेह वेगधर्माधर्मास्तूभयत्रारम्भकाः । गुरुत्वद्रचात्रेोपादानेतरकारणत्वमसमवायिकारणत्वं वेत्ति इयमपि विवक्षितम् । तत्राद्ये स्नेहोष्णस्पर्शवर्जितानामेवेदं साधर्म्यम् तयोः संग्रहरूपादे र्विजातीयस्याप्यारम्भकत्वात् । अत्रानुष्णेति निषेधः स्नेहस्याप्युपलक्षणम् (!) । एतच्चात्मधर्मेतर कार्यविषयमिति ज्ञेयम् । द्वितीये तु तयोरप्यवर्जनमिति विवेकः । सुखादयो विजातीयमात्रारम्भकाः संयोगादयस्तु भयारम्भकाः तत्र स्नेहोऽपि ग्राह्यः । आरम्भकत्वं चात्र सर्वत्राप्युपादानंतर कारणत्वमेव । स्वाश्रयसमवेतारम्भका इति । स्वाश्रयमात्रसमवेतबुझपेक्षेतर कार्यारम्भकनिष्ठगुणत्वव्याप्यजातिमन्त इत्यर्थः । एवं चापेक्षा बुडावन्त्यशब्दे च नाव्याप्तिः । परत्रारम्भका इति । परत्रैवारम्भका इत्यर्थः । ते व संग्रहज्ञानादृषृतरस्वाश्रयसमवेतानारम्भकत्वे सत्यारम्भका इति निवीच्याः । तेन स्नेहवैधप्रयत्नादौ नाव्याप्तिः । परिमाणस्यारम्भकत्वेन विशेषणान्नानारम्भकेष्वव्याप्तिरिति । उभयत्रारम्भका इति । एकत्रैवारम्भकत्वे सत्यारम्भका इत्यर्थः । अत्र वेगेन स्थितिस्थापकोऽपि ग्राह्यः स्नेहस्य संग्रहातिरिक्त कार्यपेक्षया पूर्व परत्रारम्भकेषु संग्रहः इदानीं तदपेक्षयेोभयत्रारम्भकेषु ग्रहणमित्यविरोधः । गुरुत्वेत्यादि ।
પુરા
१५३