________________
[ पाद. २. सू. ४६-४८ ]
श्री सिद्धहेमचन्द्र शब्दानुशासने षष्टोऽध्यायः
[ ७३
न्या० स० हेमा० - ननु रजतादीनामभि अणि वा नास्ति विशेषः ततस्तेषामौत्सर्गिको व भविष्यति किमत्र पाठेन ? सत्यं, अभक्ष्याच्छादनविवक्षायां 'अभक्ष्याच्छादने ' ६-२-४६ इति वा मयट् स्यात्तद्विकल्पेऽण् स्यात्, गणपाठे तु गणपाठसामर्थ्यादञेव भवति न मयद, अत एवाह
नित्यमन्प्रत्ययो भवतीति—भाकृतिगणार्थमिति वाचिकवार्तिकेन हेमादौ काञ्चनमिति निरटङ्किः तेन कानी वासयष्टिरिति सिद्धं, अन्यथाऽणपवादो 'दोरप्राणिनः ६-२-४९ इति मयट् स्यात् ।
अभक्ष्याच्छादने वा मयट् ॥ ६. २. ४६ ॥
"
षष्ठ्यन्ताद्भक्ष्याच्छादनवर्जिते यथायोगं विकारेऽवयवे च मयट् प्रत्ययो वा भवति । भस्मनो विकारः भस्ममयं भास्मनम्, अश्मनो विकारः अश्ममयम् आश्मम्, कपोतस्य विकारोऽवयवो वा कपोतमयम् कापोतम्, दूर्वाया विकारोऽवयवो वा दूर्वामयम् दौर्वम्, मूर्वामयम् मौर्वम् करीरमयं कारीरम्, शिरीषमयम् शैरीषम् अभक्ष्याच्छादन इति किम् ? मौङ्गः सूपः कार्पास: भक्ष्याच्छादनयोर्मयडभावपक्षे च ' तालाद्धनुषि' [ ६-२-३२] इत्यादिको विधि: सावकाशः, अयं च भस्ममयमित्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयट् भवति । तालमयं धनुः, त्रपुमयम्, जतुमयम्, शमीमयम्, पयोमयम्, द्रुमयम्, उष्ट्रमयम्, उमामयम् ऊर्णामयम्, एणीमयम्, कोशमयम्, परशव्यमयम्, कंसीयमयम्, शतमयम् । एके तु तालाद्धनुषि द्रोः प्राणिवा - चिभ्यश्च मयटं नेच्छन्ति ॥ ४६ ॥
पटः I
शरदर्भकूदी तृणसोमबल्वजात् ॥ ६.२.४७ ॥
शरादिभ्यो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् प्रत्ययो भवति, अणोऽपवादः । शरमयम्, दर्भमयम्, कूदीमयम्, तृणमयम्, सोममयम्, बल्वजमयम् ॥४७॥
न्या० स० शर० - ननूत्तरेण सह एकयोगः कथं न क्रियते ? उच्यते, एकयोगे शरदर्भादीनामदुसंज्ञकानां सहचर्यादेकस्वराणामपि अदुसंज्ञकानां स्यात्ततो वाङ्मयमित्यादि न स्यात् । एकस्वरात् ।। ६. २. ४८ ॥
एकस्वरान्नाम्नो यथासंभवं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मट् प्रत्ययो भवति । वाङ्मयम् त्वङ्मयम्, मृन्मयम्, स्रुङ्मयम्, गोर्मयम्, धूर्मयम् ॥४८॥