________________
७४)
बृहवृत्ति-लघुन्या संवलिते पा० २. सू० ४९-५४ ] दोस्पाणिनः ॥ ६. २. ४९-॥
दुसंज्ञकादप्राणिवाचिनो यथायोगं भक्ष्याच्छादनजिते विकारेऽवयवे च मयट् प्रत्ययो भवति, अणोऽपवादः। आम्रमयम्, शालमयम्, शाकमयम्, काशमयम्, तन्मयम्, यन्मयम् । अप्राणिन इति किम् । श्वाविधो विकारोऽवयवो वा शौवाविधम् श्वाविन्मयम् । चाषं चाषमयम् । वा (भा) सं वा (भा) समयम् ।४९। गोः पुरीषे ॥ ६. २. ५० ॥
गोशब्दात्पुरीषेऽर्थे मयट् प्रत्ययो भवति । गोः पुरीषं गोमयम । पूरीष इति किम् ? गव्यं पयः, गव्यं सक्थि । 'गोः स्वरे यः' [६-१-२७) इति यः। यद्यपि पुरीषं विकारत्वेन न प्रसिदं तथापि दोषधातुमलमूलं शरीरमिति विवक्षायां तात्स्थ्यात्तद्वदुपचार इति गोः पुरीषं पयश्च विकारो भवति । 'एकस्वरात्' [६-२-४८] इत्येव सिद्ध पुरीषे नियमार्थं वचनम् ।५०।
न्या० स० गोः पु०-विकारत्वेनेति गोविकारत्वेन न प्रसिद्धं किंतु आहारादिविकार इति । बीहेः पुरोडाशे ॥ ६. २. ५१ ॥
खोहिशब्दात्पुरोडाशे विकारे नित्यं मयट प्रत्ययो भवति, अणोऽपवादः । बोहिमयः पुरोडाशः । पुरोडाश इति किम् । वैह ओदनः वहं भस्म ॥५१॥ तिलयवादनाम्नि ।। ६. २. ५२ ।।
तिलयव इत्येताभ्यां विकारेऽवयवे . च मयट् प्रत्ययो भवति अनाम्नि, अणोऽपवादः । तिलमयम्, यवमयम् । अनाम्नीति किम् । तैलम्, यवानां विकारो यावः स एव यावकः ।५२। पिष्टात् ॥ ६. २. ५३ ॥
विष्टशब्दाद्विकारे मयट् प्रत्ययो भवति अनाम्नि, अणोऽपवादः । पिष्टमयम् ।५३। नानि कः ॥ ६. २. ५४ ॥
पिष्टशब्दान्नाम्मि विकारे कः प्रत्ययो भवति । पिष्टस्य विकारः पिष्टिका ।५४।