SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू. ४२-४५ ] हेमार्थान्माने ॥ ६. २. ४२ ॥ । हेमवाचिनः शब्दान्माने विकारे वाच्ये यथाविहितमण् प्रत्ययो भवति, दुमयटोऽपवादः । हाटकस्य विकारः हाटको निष्कः, हाटकं कार्षापणम्, जातरूपो निष्कः, जातरूप कार्षापणम् । हैमो निष्क: हैमं कार्षापणमित्यत्र परत्वाद्धेमादिलक्षणोऽव । अर्थग्रहणं स्वरूपविधिव्युदासार्थम् । मान इति किम् ? हाटकमयी यष्टि: ।४२। द्रोर्वयः ॥ ६. २. ४३ ॥ शब्दान्माने विकारे वयः प्रत्ययो भवति, यस्यापवादः । द्रोविकारो द्रुवयं मानम् ।४३। न्या. स. द्रोर्वयः यस्यापवाद इति 'पयोद्रोर्यः' ६-२-३५ इति प्राप्तस्य, मानादन्यत्र सोऽपि चरितार्थ इति । मानात्कोतवत् ।। ६. २. ४४ ॥ मीयते परिच्छिद्यते येन तन्मानम् इयत्तापरिच्छित्तिहेतुः संख्यादिरुच्यते । मानवाचिन: शब्दाद्विकारे क्रीतवत्प्रत्यय विधिर्भवति । शतेन क्रीतं शत्यं शतिकम, शतस्य विकारः शत्यः शतिकः, एवं साहस्रः नैष्किकः। वत्सर्व- . विधिसादश्यार्थः, तेन लुबादिकस्याप्यतिदेशो भवति । द्विशतः, त्रिशतः, द्विसहस्रः, द्विसाहस्रः, द्विनिष्कः, द्विनैष्किकः ।४४। न्या० स० माना-द्विशत इति द्वाभ्यां शताभ्यां क्रीतः 'शताद्यः' ६-४-१४५ इति विकल्पेन यः प्राप्तः परं तस्य विधानसामर्थ्याल्लुप् न स्यादिति, 'संख्याडतेः' ६-४-१३० । ( इति ) कः, 'अनाम्न्यद्विः प्लुप्' ६-४-१४१ एवं त्रिशतः द्विसहस्र इति । क्रीते 'सहस्रशत' ६-४-१३६ इत्यण 'नवाणः' ६-४-१४२ इति विकल्पेन लुप्, लुबभावे 'मानसंवत्सर' ७-४-१९ इत्युक्तरपदवृद्धिः । द्विनिष्क इति 'द्वित्रिबहोः' ६-४-१४४ इति वा इकणो लुप् । हेमादिभ्योऽञ् ॥ ६. २. ४५ ॥ हेमन इत्येवमादिभ्यो यथायोगं विकारेऽवयवे चार्थे नित्यमञ् प्रत्ययो भवति । हेम्नो विकारो हैमें शरासनम्, हैमो यष्टिः, रजतस्य राजतः, हेमन्, रजत, उदुम्बर, नीवुदार, रोहीतक, बिभीतक, कण्डकार, गवीधुका, पाटली, श्यामाक, बाहिण इति हेमादयः । बहुवचनम् आकृतिगणार्थम् । हेनोऽणबाधनार्थमञ्वचनम् । अणि हि सति 'अणि' (७-४-५२) इत्यन्त्यस्वरादेलुग् न स्यात्, पाटलीश्यामाकबाहिणानां दुलक्षणस्य शेषाणां तु वैकल्पिकस्य मयटो बाधनार्थम् ।४५।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy