________________
[पाद. २. सु. ३८-४१) श्रीसिद्ध हेमचन्द्रशब्दानुशासने षष्ठोध्यायः [७१ भवति । उमा अतसी तस्या विकारोऽवयवो वा औमकम्, औमम्, ऊर्णाया विकारः और्णकम्, और्णः कम्बलः ।३७।
न्या० स० उमो०-ऊर्णाया विकार इत्ति 'ऊर्वतीति णे' राल्लुक ४-१-११० इति वलोपे, 'भ्वादेः' २-१-६३ इति बाहुलकाद्दीर्घः अन्यथा मोर्मेतिवत् गुणः स्यात् । एण्या एयञ् ॥ ६. २. ३८॥
एणोशब्दाद्विकारेऽवयवे च एयञ् प्रत्ययो भवति, अणोऽपवादः । एण्या विकारोऽवयवो वा ऐणेयं मासम्, ऐणेयी जङ्घा, स्त्रीलिङ्गनिर्देशात्पुलिङ्गादणेव । ऐणं मांसम, ऐणी जङ्घा ।३८॥ कौशेयम् ॥ ६. २. ३९ ॥
कोशशब्दाद्विकारे एयञ् प्रत्ययो निपात्यते । कोशस्य विकारः कौशेयम् वखं सूत्रं वा। निपातनं रूढयर्थम्, तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादी न भवति ।३९।
परशव्याद्यलुक् च ॥ ६. २. ४०॥ . परशवे इदं परशव्यम्, तस्माद्विकारे यथाविहितमण प्रत्ययो भवति यकारस्य च लुक् । परशव्यस्यायसो विकारः पारशवम्, अण् सिद्ध एव यलुगर्थं वचनम् । अथेह यग्रहणं किमर्थम् तदभावेऽप्यवर्णेवर्णस्य [७-४-६८ ] इत्यन्तलुसिद्धौ लुग्ग्रहणात् अन्त्याभावेऽन्त्य सदेशस्यापि यकारस्य लुग् भविष्यति ? सत्यम्, यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थम्, तेनोत्तरसूत्रे 'स्वरस्य परे प्राविधौ' (७-४-११०) इत्यस्यानुपस्थानाद्यकारलोपे 'अवर्णेवर्णस्य' (७-४-६८) इतीकारलोपो भवति ।४०॥
न्या० स० परशव्यात्-सदेशस्यापीति समीपस्यापीत्यर्थः । अन्त्याभावे इति न वाच्यं 'स्वरस्य' ७-४-११० इत्यकारस्य स्थानित्वं यविधित्वान्न संधीत्यस्यावस्थानात , यद्वाऽस्य लुक्ग्रहणरय नैरर्थक्यात् । ।
_ तेनोत्तरेति अयमर्थोऽत्र परशव्याल्लुक चेत्येवमपि कृते सिध्यति, उत्तरत्र तु कंप्सीय शब्दात ज्ये सत्यस्य लोपे कृते 'स्वरस्य परे' ७-४-११० इत्यादिवशात् ईलोपो न स्यात् ।
हैमो निष्क इति हेम्नो विकारः, 'हेमादिभ्योऽ' ६-२-४५, 'नोपदस्य' ७-४-६१ इत्यन्लुप् । यद्यनेनाणु स्यात्तदाणीत्यन्त्यस्वरादिलुगभावः स्यात्, अकारान्तात्तु अनेनैवाण हैमः। कंसीयाञ् ज्यः ॥ ६. २. ४१॥
कंसाय इदं कंसीयं परिणामिनि तदर्थे' (७-१-४४) इतीयः, कंसीयशब्दाद्विकारे ज्यः प्रत्ययो भवति तत्संनियोगे यशब्दस्य लुक च । कांसीयस्य विकारः कांस्यम् ।४१।