________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः
[ ६३
| पाद. २. सू. ४-५-६ ]
नीलपीतादकम् ॥ ६. २. ४ ॥
नीलपीतशब्दाभ्यां रागविशेषवाचिभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अ क इत्येतौ प्रत्ययो भवतः । नीलेन लिङ्गविशिष्ट ग्रहणान्नील्या वा रक्त नीलम्, पीतेन रक्तं पीतकम्, केचित्तु पीतकशब्दादप्य प्रत्ययमिच्छन्ति, पीतकेन कुसुम्भप्रथम निर्यासेन रक्त पीतकम्, गुणवचनत्वात्केनैव सिद्धे अणपवादार्थं वचनम् ॥४॥
न्या० स० नील- केचित्विति ते हि नीलपीतकादः पीतात्क इति द्वे सूत्रे विरचयन्ति । अणपवादार्थमिति अयमर्थः, इदं सूत्रं विनाऽपि नीलपीत गुणयोगान्नीलं पीतं च पीतात् सु स्वार्थिकेन कुत्सितार्थेन वा कपा पीतकमिति व सेत्स्यतीत्याशका |
उदितगुरोर्भादे ॥ ६.२.५ ॥
उदितो गुरु बृहस्पतिर्यस्मिन् भे नक्षत्रे तद्वाचिनस्तृतीयान्तात् युक्त यथाविहितं प्रत्ययो भवति स चेद्युक्तोऽर्थोऽब्दः संवत्सरः स्यात् । पुष्पेणोदितगुरुणा युक्तं वर्ष पौषं वर्षम्, फल्गुनी मिरुदित गुरुभिर्युक्तः फाल्गुन: संवत्सरः । उदितगुरोरिति किम् ? उदितशनैश्वरेण पुष्येण युक्त वर्षमित्यत्र न भवति । भादिति किम् ? उदितगुरुणा पूर्वरात्रेण युक्त वर्षम् । अब्द इति किम् ? मासे दिवसे वा न भवति |५|
चन्द्रयुक्तात्काले लुस्वप्रयुक्ते च ॥ ६. २. ६ ॥
चन्द्रेण युक्तं यन्नक्षत्रं तद्वाचिनस्तृतीयान्ताद्युक्तेऽर्थे यथाविहितं प्रत्ययो भवति स चेद्युक्तोऽर्थः कालो भवति अप्रयुक्ते तु कालवाचके शब्दे लुब् भवति, पुष्येण चन्द्रयुक्तेन युक्तमहः पौषमहः, एवं पौषी रात्रिः, पौषोऽहोरात्रः, पौषः कालः, माघमहः, माघी रात्रिः, माघोऽहोरात्रः, माघः कालः । चन्द्रयुक्तादिति किम् ? शुक्रयुक्तेन पुष्येण युक्तः कालः भादित्येव ? चन्द्रयुक्तेन शुक्रेण युक्तः कालः । काल इति किम् ? चन्द्रयुक्तेन पुष्येण युक्तो ग्रहः, लुप् स्वप्रयुक्ते, अद्य पुष्यः । अद्य मधाः । दिवा कृत्तिकाः, रात्रौ फल्गुन्यः । पुष्ये पायसमश्नीयात् मघासु पललौदनम् । अप्रयुक्त इति किम् । पोषमहः, पौषी रात्रिः, पौषोऽहोरात्रः, पौषः कालः | ६|
न्या० स० चन्द्रयुक्तात् काले - अहोरात्र इति एकाद् रात्रः समाहारः इति पुंक्लीवत्वं कथं दीर्घण्यहोरात्राणीति समाहाराभावे निकाय्यरात्रवृत्रा इति पुंस्त्वमेव प्राप्तम् ? सत्यं, अहोरात्रं च ३ इत्येकशेषे ।
अद्य पुष्य इति अत्र अद्येत्यस्याधारत्वमेव न सामानाधिकरण्यम् ।