SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६४] वृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू. ७-८-९] फल्गुन्य इति 'फल्गुनीप्रोष्ठ' २-२-१२३ इति बहुवावः। पुष्ये पायसमिति पयसि संस्कृतं 'संस्कृते भक्ष्ये' ६-२-१४० अण् , पयसा संस्कृतमिति तु कृते 'संस्कृते' ६-४-३ इत्यनेनेकण् स्यात् । दन्दादीय ॥ ६. २. ७॥ चन्द्रयुक्त यन्नक्षत्रं तद्वन्द्वात्तृतीयान्तायुक्ते कालेऽर्थे ईयः प्रत्ययो भवति । राधानुराधाभिश्चन्द्रयुक्ताभिर्युक्तमहः राधानुराधीयमहः, अद्यराधानुराधीयम् । एवं तिष्यपुनर्वसवीया रात्रिः, अद्य तिष्यपुनर्वसवीयम् ॥७॥ __ न्या० स० द्वंद्वा-राधानुराधीयमिति राधाभिः चन्द्रयुक्ताभिर्युक्तः कालः 'चन्द्रयुक्त' ६-२-६ इत्यण् , अप्रयुक्ते लुप् , ततो गधाश्च अनुराधाश्च राधानुराधाः ताभिः, एवं सर्वत्र । श्रवणाश्वत्थान्नाम्न्यः ॥ ६. २.८ ॥ चन्द्रयुक्तनक्षत्रवाचिनः श्रवणशब्दादश्वत्थशब्दाच्च तृतीयान्तायुक्ते काले अकारः प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत् कस्यचित्कालविशेषस्य नाम भवति, श्रवणेन चन्द्रयक्तेन युक्ता श्रवणा रात्रिः । श्रवणा पौर्णमासी, श्रवणो मुहूर्तः, अश्वत्थेन चन्द्रयुक्तेन युक्ता अश्वत्था रात्रिः, अश्वत्था पौर्णमासी, अश्वत्थो मुहूर्तः, सत्यपि अन्वर्थयोगे न कालमात्रमेव उच्यते अपि तु कालविशेष एवेति नामत्वम् । नाम्नीति किम् ? श्रावणमहः, श्रावणो रात्रिः, आश्वत्थमहः, आश्वत्थो रात्रिः ॥८॥ न्या० स० श्रव-पौर्णमासीति माति मिमीते वा असित्यस् , पूर्णोमासश्चन्द्रोऽस्यामस्ति पूर्णमासोऽण् , पूर्णमास इयमिति वा, 'तस्येदम्। ६-३-१६० इत्यण, पूर्णो मासोऽस्यां पूर्णमासा वा युक्ता 'सास्य पौर्णमासी'६-२-९८ इत्यणि निपातो वा । षष्टयाः समूहे ॥ ६, २. ९ ॥ षष्ठ्यान्तान्नाम्न: समूहेऽर्थे यथाविहितं प्रत्यया भवन्ति । गौत्रादकञ् वक्ष्यते अचित्तादिकण प्रतिपदं केदाराण्ण्यश्चेत्येवमादयः, ततोऽन्यदिहोदारणं द्रष्टव्यम् । चाषाणां समूहश्चाषम्, एवं काकं, वाकम्, शौकं, भैक्षुकम्, वाडवम्, वनस्पतीनां समूहो वानस्पत्यम्, बैणम्, पौंस्नम्, पञ्चानां कुमाराणां समूहः पञ्चकुमारीत्यत्र तु समूहः समाहार एव, स च समासार्थः समासेनैव च गत इति तद्धितो नोत्पद्यते । यद्युत्पधेत को दोषः स्यात् उत्पन्नस्यापि ह्यस्य 'द्विगोरनपत्ये यस्वरादेल बद्विः' (६-१-२४) इति लुपा भवितव्यम् तथा चाविशेषः ? नवम्, ‘ड्यादेगौणस्य'-(२-४-९४) इत्यादिना डीनिवृत्तिः स्यात्, ‘तस्येदम्' (६-३-१५९) इत्येवाणादिसिद्धौ समूहविवक्षायां तदपवादबाधनार्थो योगः ॥९॥ .
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy